________________
योगशास्त्रम्
दतीय प्रकाशा
।।४७३॥
कायोऽध:काय: पादलक्षणस्तं प्रति कायेन निजदेहेन हस्तललाटलक्षणेन संस्पर्श आमर्शस्तं करोमि' इति गम्यते । एतदपि ममानुजानीध्वमित्यनेन योगः। आचार्यमननुज्ञाप्य हि संस्पर्शों न कार्यः। ततो वक्तिखमणिज्जो क्षमणीयः सोढव्यः, भे भवद्भिः, किलामो क्लमः संस्पर्श सति देहग्लानिरूपः। तदा अप्पकिलताणं अल्पं स्तोक क्लान्तं क्लमो येषां तेऽल्पक्लान्तास्तेषामल्पवेदनानामित्यर्थः, 'बहुसुभेण ' बहु च तच्छुभं च बहुशुभं तेन बहुमुखेनेत्यर्थः, 'भे' भवताम्. 'दिवसो वइक्कतो' दिवसो व्यतिक्रान्तः। अत्र दिवसग्रहण रात्रिपक्षादीनामुपलक्षण द्रष्टव्यम् । एवं योजितकरसंपुटं गुरोः प्रतिवचनमीक्षमाण शिष्य प्रत्याह गुरु:-'तह ति' तथेति प्रतिश्रवणे, अत्र तथाकारः यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्ता पृष्टा । अथ तपोनियमविषयां वार्ता पृच्छन्नाह-जत्ता भे, 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पृष्टा रजोहरणललाटयोरन्तराले ‘त्ता' इति स्वरितेन स्वरेणोच्चाय, उदात्तस्वरेण 'भे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति, यात्रा संयमतपोनियमादिलक्षणा क्षायिकक्षायोपशमिकौपशमिकमावलक्षणा वा भे' भवताम् 'उत्सपति' इति गम्यते । अत्रान्तरे गुरो : प्रतिवचनम् ' तुम्भं पि वट्टइ ' मम तावदुत्सर्पति, भवतोऽप्युत्सर्पति । ___ अधुना नियन्त्रणीयपदार्थविषयां वार्ता पृच्छन् पुनरप्याह विनेयः-जवणिज्जं च भे, 'ज' इत्यनुदात्तस्वरेण रजोहरण स्पृष्ट्वा 'व' इति स्वरितस्वरेण रजोहरणललाटयोरन्तराले उच्चार्य णिशब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्धसमाप्तत्वात् प्रश्नस्य; ततो 'ज' इत्यनुदात्तस्वरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य 'भे' इत्युदात्तस्वरेणो
४७॥