________________
योगशास्त्रम्
तृतीय प्रकाश
॥४७२॥
त्रिविधेनेति भणति मनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः। ततः शिष्यः संक्षेपवन्दनं करोति । व्याक्षेपादि रहितश्चेदगुरुः तदा वन्दनमनुज्ञातुकामः छन्देनेति बदति छन्देनाऽभिप्रायेण ममाऽपि एतदभिप्रेतमित्यर्थः। ततो विनेयोऽवग्रहाद बहिःस्थित एवैवमाह अनुजानीत अनुमन्यध्वं मे इति आत्मनिर्देशे, किं ? मितश्चासाववग्रहश्च मितावग्रहः इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहः, तस्मिन्नाचार्याऽनुज्ञां विना प्रवेष्टुं न कल्पते, यदाह
आयप्पमाणमेत्तो चउद्दिस होइ अवग्गहो गुरुणो । अणणुण्णायस्स सया न कप्पए तत्थ पविसेउं ॥ १॥ ततो गुरुर्भणति-अनुजानामि । ततः शिष्यो भुवं प्रमृज्य नैषेधिकी कुर्वन गुर्ववग्रहे प्रविशति । निसीहीति निषिद्धसर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः । ततः संदंशप्रमार्जनपूर्वकमुपविशति । गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिकया वामकर्णादारभ्य वामहस्तेन दक्षिणकर्ण यावल्ललाटमविच्छिन्नं च वामं जानु त्रिः प्रमृज्य मुखवस्त्रिका वामजानूपरि स्थापयति । ततोऽकारोच्चारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति । ततः काकारोच्चारणसमकालं रजोहरणं स्पृष्टा यकारोच्चारणसमकालं ललाटं स्पृशति । पुनश्च काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृशति । ततः संफासमिति बद्न् शिरसा पाणिभ्यां च रजोहरणं स्पृशति ततः शिरसि बद्धाञ्जलिः 'खमणिज्जो मे किलामो' इत्यारभ्य 'दिवसो वइक्कतो' यावदगुरुमुखे निविष्टदृष्टिः पठति । अधस्तात (१) आत्मप्रमाणमात्रश्चतुर्दिशं भवत्यवग्रहो गुरोः । अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥ १ ॥ (२) त्रिः प्रदक्षिणीकृत्य प्रमृज्य इति प्रत्यन्तरम् ।
॥४७२॥