________________
पोगशास्त्रम्
तृतीय प्रकाशा
॥४१॥
निंदामि गरिहामि अप्पाणं वोसिरामि ।
व्याख्या-अत्र हि शिष्यो गुरुवन्दनेन बन्दितुकामः पूर्व लघुवन्दनपुरःसरं संदंशको प्रमृज्योपविष्ट एवं मुखवस्त्रिकां पश्चविशतिकृत्वः प्रत्युपेक्षते, तया च शरीर पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाककायसंशुद्धो गुरोः सकाशादात्मप्रमाणात् क्षेत्राद् बहिःस्थितोऽधिज्यचापवदवनतकायः करद्वयगृहीतरजोहरणादिबन्दनायोद्यत एवमाह-इच्छामि अभिलषामि, अनेन बलाभियोगः परिहतः, क्षमाश्रमण ! 'क्षमृषि सहने' इत्यस्य पित्त्वादङि क्षमा सहनमित्यर्थः, श्राम्यति संसारविषये खिनो भवति तपस्यतीति वा नन्द्यादित्वात् कर्तरि अने श्रमणः, क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्य सम्बोधने प्राकृते खमासमणो ! 'डो दीर्घो वा' ।। (सिद्धहेम०८ । ३ । ३८)॥इति आमन्त्र्ये से?कारः, क्षमाग्रहणेन मार्दवाजवादयो गुणाः सूचिताः। ततश्च क्षमादिगुणोपलक्षितयतिप्रधान ! अनेन वन्दनाईत्वं तस्यैव सूचितम्, किं कर्तुं वन्दितुं नमस्कतुं भवन्तमिति गम्यते, कया ? यापनीयया नैषेधिक्या, अत्र नैषेधिक्येति विशेष्य, यापनीययेति विशेषणम्, 'पिधू गत्याम् । इत्यस्य निपूर्वस्य घबि निषेधः प्राणातिपातादिनिवृत्तिः स प्रयोजनमस्या नैषेधिकी तनुः तया। कीदृश्या ? यापनीयया 'यांक प्रापणे, अस्य गिगन्तस्य प्वागमे यापयतीति यापनीया प्रवचनादित्वात् कर्तर्यनीयः तया, शक्तिसमन्वितया इत्यर्थः । अयं समुदायार्थ:-हे श्रमणगुणयुक्त ? अहं शक्तिसमन्वितशरीरः प्रतिपिद्धपापक्रियश्च त्वां वन्दितुमिच्छामि । अत्र विश्रामः । अत्र चान्तरे गुरुर्यदि व्याक्षेपबाधायुक्तस्तदा भणति प्रतीक्षस्वेति । तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति अन्यथा तु नेति चूर्णिकारमतम् । वृत्तिकारस्य तु मतं
त्यस्य निकपणे '
अयं समुदा
|॥४७१॥