________________
योगशास्त्रम्
तृतीय प्रकाशा
Byoll
शब्देनोच्चारयतो वन्दनम् । ३१। चुडली उल्मुकं यथोन्मुकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, यद्वा यत्र दीर्घहस्तं प्रसार्य वन्दे इति भणतो वन्दनम्, अथवा हस्तं भ्रमयित्वा सर्वान् वन्दे इति वदतो वन्दनम् । ३२। ___ वन्दनके च शिष्यस्य षडभिलापा भवन्ति, तद्यथा इच्छा अनुज्ञापना अव्यावा, यात्रा यापना अपराधक्षामणा च, यदाह१इच्छा य अणुण्णवणा अव्वाबाहं च जत्त जवणा य । अवराहखामणा चिय छठाणा हुँति वन्दणए ॥१॥ गुरुवचनान्यपि पडेव यथा छन्देन अनुजानामि तथेति तुभ्यमपि वर्तते एवमहमपि क्षमयामीति । यदाह
छंदेनरे अणुजाणामि तह ति तुभं पि वट्टइ एवं । अहमवि खामेमि तुमे आलावा वंदणरिहस्स ॥१॥ एते च द्वये अपि यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । सूत्रं च___ इच्छामि खमासमणो वंदिउ जावणिज्जाए निसीहियाए अनुजाणह मे मिउग्गहं निसीहि अहो काय कायसंफासं खमणिज्जो भे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो जत्ता में जवणिज्जं च भे खामेमि खमासमणो देवसि वइक्कम आवसिआए पडिकमामि खमासमणाण देवसिआए आसायणाए तित्तीसनयराए जं किंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोहाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अडआरो कओ तस्स खमासमणो ! पडिक्कमामि (१) इच्छा चानुज्ञापना अव्याबाधं च यात्रा यापना च । अपराधक्षामणा चैव पट् स्थानानि भवन्ति वन्दनके ॥१॥ (२) छन्देनानुजानामि तथेति तवाऽपि वर्तते एवम् । अहमपि क्षमयामि तवालापाद वन्दनाईस्य ॥१॥
॥४७॥