________________
योगशास्त्रम्
॥४७५
क्रोधयुक्तया, मानया मानयुक्तया, मायया मायायुक्तया, लोभया लोभयुक्तया, अयं भावः-क्रोधाधनुगतेन या | काचिद् विनयभ्रंशादिलक्षणाऽऽशातना कृता तयेति । एवं देवसिक्याशातनोक्ता । अधुना पक्ष-चातुर्मास-संवत्सर
तृतीय
प्रकाशा कालकृता इहमवान्यभवगतातीतानागतकालकृता च या आशातना तस्याः संग्रहार्थमाह-'सबकालियाए' सर्वकालेषु भवा सावकालिको तया । अनागतकाले कथमाशातनासंभवः ? इति चेत् उच्यते-'वोऽस्य गुरो रिदमिदं वानिष्टं कर्तास्मि' इति चिन्तया । इत्थं भवान्तरेऽपि तद्वधादिनिदानकरणेन संभवत्येव । सर्व एव 18 मिथ्योपचारा मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमिथ्योपचारा तया। सर्वे धर्मा अष्टौ प्रवचनमातरः सामान्येन करणीयव्यापारा वा तेषामतिक्रमणं लङ्घनं विराधनं यस्यां सा सर्वधर्मातिक्रमणा। एवंभूतयाऽऽशातनया यो मयातिचारोऽपराधः कृतो विहितस्तस्यातिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं प्रतिक्रमामि अपुनःकरणेन निवर्तेः तथा दुष्टकमकारिणं निन्दाम्यात्मानं भवोद्विग्नेन प्रशान्तेन चेतसा; तथा गर्हे आत्मानं दुष्टकर्मकारिणं युष्मत्साक्षिकम्, व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन । एवं तत्रस्थ एवार्धावनतकायः पुनरेवं भणति-'इच्छामि खमासमणो' इत्यारभ्य यावद् 'वोसिरामि' इतिः परमयं विशेषः-अवग्रहाद बहिनिष्क्रमणरहित आवश्यकीविरहितं दण्डकसूत्रं पठति । वन्दनकविधिविशेषसंवादिकाश्चेमा गाथाः१आयारस्स उ मूल विणओ सो गुणवओ अ पडिवत्ती। सा अ विहिवंदणाओ विही इमो बारसावत्तो ॥१॥ (१) आचारस्य तु मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधिवन्दनाद् विधिरयं द्वादशावर्तः ॥१॥
॥५७५॥