________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४६७॥
१अणाढियं च थड्द च पविद्धं परिपिडियं । टोलगइ अंकुसं चेव तहा कच्छभरिंगिअं॥१॥ मच्छोव्वत्तं मणसा य पउठें तह य वेइयाबद्धं । भयसा चेव भयंतं मेत्ती गारवकारणा ॥२॥ तेणिअं पडणीअं चेव रुष्टुं तज्जियमेव य । सदं च हीलिअं चेव तहा विपलिउंचि ॥ ३ ॥ दिहमदिटुं च तहा सिगं च करमोअणं । आलिद्धमनालिद्धं ऊणं उत्तरचूलिअं ॥४॥ मूअं च ढड्ढरं चेव चुडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं पउंजए ॥ ५॥
अनादृतं सम्भ्रमरहितं वन्दनम् । १। स्तब्धं मदाष्टकवशीकृतस्य वन्दनम् ।२। प्रविद्धं वन्दनं ददत एव पलायनम् । ३। परिपिण्डितं प्रभूतानां युगपद्वन्दनम्, यद्वा कुक्षेरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याऽव्यक्तसूत्रोच्चारणपुरःसरं वन्दनम् । ४ । टोलगति तिड्डवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दनम् । ५। अङ्कुशमुपकरणे चोलपट्टकल्पादौ हस्ते वा अवज्ञया समाकृष्य अकुशेन गजस्येवाचार्यस्योवस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासन उपवेशनम् । न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य, यद्वा (१) अनादृतं च स्तब्धं च प्रविद्धं परिपिण्डितम् । टोलगति अङ्कुशं च तथा कच्छपरिङ्गितम् ॥ १॥
मत्स्योवृत्तं मनसा च प्रदुष्टं तथा च वेदिकाबद्धम् । भयाद् चैव भजमानं मैत्री गौरवकारणम् ॥२॥ स्तैनिकं प्रत्यनीकं चैव रुष्टं तर्जितमेव च । शठं च हीलितं चैव तथा विपरिकुञ्चितम् ॥३॥ दृष्टमदृष्टं च तथा शंङ्ग च करमोचनम् । आश्लिष्टमनाश्लिष्टमूनमुत्तरचूलित (क)म् ॥ ४ ॥ मकं च दडूढरं चैव चुडलिश्चापश्चिमम् । द्वात्रिंशद्दोषपरिशुद्ध कृतिकर्म प्रयुञ्जीत ॥ ५ ॥
॥४६७।