________________
योगशास्त्रम्
||४६६॥
त्सर्गे मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः । अयमपि पूर्वमुक्तः । वन्दनं वन्दनायोग्यानां धर्माचार्याणां पश्चविंशत्यावश्यकविशुद्धं द्वात्रिंशदोषरहितं नमस्करणम् तत्र पञ्चविंशतिरावश्यकानि यथा
१दुओणयं अहाजायं किय (इ) कम्मं बारसावयं (त) । चउसिरं तिगुत्तं च दुपवेस एगनिक्खमणं ॥ १ ॥ इति ॥ द्वे अवनमने “ इच्छामि खमासमणो वंदिउ जावणिज्जाए निसीहिआए " इत्यभिधाय गुरोश्छन्दानुज्ञापनाय प्रथममवनमनम् । १ । यदा पुनः कृतावर्तो निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनभ्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् । २ । तथा यथाजातं जातं जन्म तच्च द्वेधा प्रभवः प्रव्रज्याग्रहणं च । तत्र प्रसवकाले रचितकरसं पुटो जायते प्रव्रज्याकाले च गृहीतरजोहरणमुखवत्रिक इति यथा जातमस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् । ३ तथा द्वादशावर्ता : काय चेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरः स्थापनरूपा यस्मिंस्तद् द्वादशावर्तमिह च प्रथमप्रविष्टस्य अहो कायं इत्यादिसूत्रोच्चारणगर्भाः षडावर्ताः निष्क्रम्य पुनः प्रविष्टस्याऽपि त एव डिति द्वादश । १५ । चत्वारि शिरांसि यस्मिन् तच्चतुः शिरः प्रथमप्रवेशे क्षामणाकाले शिष्याचार्ययोरवनमच्छि रोद्वयम्, निष्क्रम्य पुनः प्रवेशे तथैव च शिरोद्वयम् । १९ । त्रिगुप्तं मनोवाक्कायकर्मभिर्गुप्तम् । २२ । तथा प्रथमोनुज्ञाप्य प्रवेशो द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशमेकं निष्क्रमणमावश्यक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् । २५ । द्वात्रिंशदोषा यथा—
(१) द्वयवनतं यथाजात कृतिकर्म द्वादशावर्तम् । चतुः शिरः त्रिगुतं च द्विप्रवेशमेकनिष्क्रमणम् ॥ १ ॥
SECRETOOK Tohaa
तृतीय
प्रकाशः
॥४६६॥