________________
योगशाखम्
दतीय प्रकाशा
ESSORDER
॥४६५।।
ततस्तदनन्तरं माध्यानिकी मध्याह्नकालभाविनी पूजां जिनसप- कुर्यात्, विधाय च भोजनमित्यनुवादः । माध्याहिकीपूजाभोजनयोश्च न कालनियमः। तीव्रबुभुक्षोहि बुभुक्षाकालो भोजनकाल इति रूढेमध्याह्नादांगपि गृहीतप्रत्याख्यानं तीरयित्वा देवपूजापूर्वक भोजनं कुर्वन्न दुष्यति । अत्र चाऽयं विधिःरजिनपूओचिअदाण परियणसम्भालणा उचियकिच्चं । ठाणुवएसो य तहा पच्चक्खाणस्स सम्भरण ॥१॥
तथा भोजनाऽनन्तरं सम्भवतो प्रन्थिसहितादेः प्रत्याख्यानस्य करणं प्रमादपरिजिहीर्णोहि प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुम् । शास्त्रार्थानां रहस्यान्यदंपर्याणि विचारयेदिदमित्थं भवति नेति वा सम्प्रधारयेत , कथं ! सह सार्ध । कैः? तद्विद्भिः तच्छास्त्रार्थरहस्य विदन्ति ये तैः, गुरुमुखात् श्रुतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीति कृत्वा ॥ १२९ ।। ततश्च सन्ध्यासमये कृत्वा देवार्चन पुनः। कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ॥१३०॥ ___ ततस्तदनन्तरं यो द्विभुङ्क्ते स विकालसमये अन्तमुहुर्तादर्वाग भोजनं कृत्वा सन्ध्यासमये पुनस्तृतीयवारं देवा र्चनं कृत्वा साधुसमीपं गत्वा भूमिकौचित्येन षविधावश्यक सामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमणकायोत्सर्ग-प्रत्याख्यानलक्षण कुर्यात् तत्र सामायिकमातरौद्रध्यानपरिहारेण धर्मध्यानपरिकरणेन शत्रुमित्रणकाअनादिषु समता, तच्च पूर्वमेवोक्तम् । चतुर्विशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं स्तवो गुणकीर्तनं तस्य च कायो१ जिनपूजोचितदानं परिजनसभालनमुचितकृत्यम् । स्थानोपदेशश्च तथा प्रत्याख्यानस्य संस्मरणम् ॥१॥
॥४६५॥