________________
योग
शास्त्रम्
४६४॥
अभ्युत्थानं ससम्भ्रममासनत्यागः, तदालोके गुरुणामालोकने सति, अभियानमभिमुखं गमनं तदागमे
तृतीय गुर्वागमे, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलिसंश्लेषः करकोरककरणं नमो खमासमणाणं ति वचनोच्चारपूर्वकं
प्रकाशा मुरुषु स्वयमासितव्यमित्यभिग्रहः आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनं स्वयमित्यात्मना न तु परप्रेषणेन आसनढौकनमासनसन्निधापनम् ॥१२६॥ आसनाऽभिग्रहः आसन उपविष्टेषु स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्युपासनं सेवा, तेषां गुरूणां याने गमनेऽनुगमनं पृष्ठतः कतिपयप दानुसरणमियं प्रतिपत्तिरुपचारविनयरूपा गुरोर्धर्माचार्यस्य ॥ १२७ ॥
ततो गुरुपाघे धर्मदेशनां श्रुत्वा| ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीधर्माऽविरोधेन विदधीतार्थचिन्तनम् ॥१२८॥
ततो देवगृहात् प्रतिनिवृत्तो व्यावृत्तः सन् यथोचित स्थानं गत्वा यथोचितमिति यदा राजादिस्तदा धवलगृह यद्यमात्यादिस्तदा करणम्, अथ वणिगादिस्तदा आपणमिति सुधीवुद्धिमान् विदधीत अर्थचिन्तनमर्थोपायचिन्तां धर्माविरोधेनेति धर्मस्य जिनधर्मस्य अविरोधेन अबाधया । अत्र चार्थचिन्तनमित्यनुवाद्यं तस्य स्वतःसिद्धत्वात् धर्माविरोधेनेति विधेयमप्राप्तत्वात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमनीचयोर्माध्यस्थ्येन न्यायदर्शनात, नियोगिनां च राजार्थप्रजार्थसाधनेन, वणिजां च कूटतुलाकूटमानादिपरिहारेण पञ्चदशकर्मादानपरिहारेण च बोद्धव्यः ॥ १३८ ॥ ततो माध्यानिकी पूजां कुर्यात् कृत्वा च भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् १२९ ।
॥४६४॥