________________
योग
शास्त्रम्
॥४६३॥
NO ROC
परार्थकरणं सचार्थकरणं जीवलोकसारं पौरुषचिह्नमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवतीत्याह- शुभगुरुयोगो विशिष्टचारित्रयुक्ताचार्यसम्बन्धः तथा तद्वचनसेवा सद्गुरुवचन सेवना न जातु चिदयमहितमुपदिशति, आभवमासंसारमखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपम्, प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादर्वा कर्तव्यम्, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात् तदेवंविधिशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ॥ १२४ ॥ इदानीमनन्तरकरणीयमाह
ततो गुरूणामभ्यणें प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥ १२५॥ ततोऽनन्तरं गुरूणां धर्माचार्याणां देववन्दनार्थमागतानां स्नात्रादिदर्शनधर्मकथाद्यर्थं तत्रैव स्थितानाभ्यर्णे उचिते समीपे, उचितत्वं चार्धचतुर्थहस्तप्रमाणात् क्षेत्राद् बहिरवस्थानम्, प्रतिपत्तिर्व्याख्यास्यमाना बन्दनकादिरूपा वा तत्पुरःसरं तत्पूर्वकं विदधीत कुर्य्यात्, विशुद्धात्मा निर्मलचित्तो न तु दम्भादियुक्तः, प्रत्याख्यानस्य देवसमीपे कृतस्य प्रकाशनं गुरोः पुरतः प्रकटनम्; त्रिविधं हि प्रत्याख्यानविधानमात्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च । ॥। १२५ ।। प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुप्रतिपत्तिं श्लोकद्वयेन दर्शयतिअभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥ १२६ ॥ आसनाऽभिग्रहो भक्त्या वन्दना पर्युपासनम । तद्यानेऽनुगमश्चेति प्रतिपत्तिरिथं गुरोः ॥ १२७॥
तृतीय
प्रकाशः
॥४६३॥