________________
योग
शास्त्रम्
||४६२॥
जय वीतराग ! जगद्गुरो ! इति भगवतस्त्रिलोकनाथस्य बुद्धयां सन्निधानार्थमामन्त्रणम् भवतु जायतां ममेत्यात्मनिर्देशः तव प्रभावतः तव सामर्थ्येन, भगवन्निति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तदित्याह -- भवनिर्वेदः संसारनिर्वेदः । न हि भवादनिर्विण्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धान्मोक्षे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात् । तथा मार्गानुसारिता असद्ग्रहविजयेन तत्त्वानुसारिता, तथा इष्टफलसिद्धिरभिमतार्थनिष्पत्तिः ऐहलौकिकी, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति तस्माच्चोपादेयप्रवृत्तिः । तथा लोकविरुद्धत्यागः सर्वजननिन्दादिलोकविरुद्धानुष्ठानवर्जनम् । यदाह
१ सव्वस्स चैव निदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपुयणिज्जाणं ॥ १ ॥ बहुजनविरुद्धसंगो देसाचारस्स लंघणं चेवं । उव्वणभोओ अ तहा दाणाइवियडमओ || २ || साहुवसणम्मि तो सो सइ सामत्थम्मि अपडियारो अ । एमाइयाई इत्थं लोगविरुद्धाई आई ॥ ३ ॥ गुरुजनस्य पूजा उचितप्रतिपत्तिर्गुरुपूजा, गुरवश्च यद्यपि धर्माचार्य्या एवोच्यन्ते तथापीह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम्-
माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ १ ॥
(१) सर्वस्य चैव निन्दा विशेषतस्तथा च गुणसमृद्धानाम् । ऋजुधर्मकरणहसनं रीढा जनपूजनीयानाम् ॥ १ ॥ बहुजनविरुद्धसङ्गो देशाचारस्य लङ्घनं चैव । उल्वणभोगश्च तथा दानादिविकटमन्यस्मात् ॥ २ ॥ साधुव्यसने तोषः सति सामर्थ्येऽप्रतिकारश्च । एवमादिकानि इत्थं (अत्र) लोकविरुद्धानि ज्ञेयानि ॥३॥
तृतीय
प्रकाशः
જા