________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४६॥
हेतुर्भवति यथाभूतात् श्रेणिमवाप्य निस्तरति भवोदधिमिति । अतः कार्ये कारणोपचारादेवमुच्यते न च चारित्रस्य वैफल्यम्, तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एतास्तिवः स्तुतयो गणधरकृतत्वाद् नियमेनोच्यन्ते केचित्तु अन्ये अपि स्तुती पठन्ति
यथा-- उज्जितसेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचकवहि अरिष्टनेमि नमसामि ॥ ४॥ चत्तारि अह दस दो अवंदिआ जिणवरा चउवीसं । परमहनिटिअहा सिद्धा सिद्धिं मम दिसंतु ॥५॥ सुगमे। एवमेतत्पठित्वोपचितपुण्यसम्भार उचितेष्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थ पठति पठन्ति वा--वेयावच्चगराणं सन्तिगराणं सम्मदिहिसमाहिगराणं करेमि काउस्सग्ग--वैयावृत्यकराणां प्रवचनार्थ व्यापृतभावानां गोमुखयक्षाऽप्रतिचक्राप्रभृतीनां, शान्तिकराणां सर्वलोकस्य, सम्यग्दृष्टिविषये समाधिकराणाम्, एषां सम्बन्धिनां षष्ठयाः सप्तम्यर्थत्वादेतद्विषयमेतान् वाश्रित्य करोमि कायोत्सर्गम् । अत्र वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छ्वसितेनेत्यादि, तेषामविरतत्वात् इत्यमेव तद्भाववृद्धरुपकारदर्शनात् । एतव्याख्या च पूर्ववत् । नवरं स्तुतिर्वैयावृत्यकराणां पुनस्तेनैव विधिना उपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्वन्ति । यथा-- जय वीयराय ! जगगुरु ! होउ ममं तुह पभावओ भयवं ! । भवनिव्वेओ मग्गाणुसारिआ इट्ठफलसिद्धी ॥१॥ लोगविरुद्धच्चाओ गुरुजणपूआ परत्थकरण च । सुहगुरुजोगो तब्बयणसेवणा आभवमखण्डा ॥ २ ॥
॥४६॥