________________
योगशास्त्रम्
तृतीय
प्रकाशा
॥४६०॥
इक्को वि नमुक्कारो जिणवरवसहस्स बद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥३॥
एकोऽप्यासतां बहवः, नमस्कारो द्रव्यभावसंकोचलक्षणः, जिनवरवृषभाय---जिनाः श्रुतावधिजिनादयः तेषां वराः केवलिनस्तेषां वृषभः तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै । स च ऋषभादिरपि भवतीत्याह--वर्धमानाय, यत्नात्कृतः सन्निति शेषः । किम् ? संसरणं संसारस्तिर्यग्नरनारकामरभवानुभावलक्षणः स एव भवस्थितिकायस्थितिभ्यामनेकधावस्थानेनालब्धपारत्वात्सागर इव संसारसागरः, तस्मात् तारयति पारं नयतीत्यर्थः ? कमित्याह ? नरं वा नारिं वा नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम् नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे
१नो खलु इत्थी अजोवो, न यावि अभव्या न यावि दसणविरोहिणी, नो अमाणुस्सा, नो अणायरियउप्पन्ना, नो असंखेज्जाउआ, नो अइकूरमई, नो अणुवसन्तमोहा, नो अ सुद्धाचारा, नो असुद्धबोंदी, नो ववसायवज्जिा नो अपुव्वकरणविरोहिणी, नो नवगुणहाणरहिआ, नो अजोग्गा लद्धीए, नो अकल्लाणभायणं ति कहं न उत्तमधम्मस्स साहगा ? इति ।
अयमत्र भावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य
(१) नो खलु स्त्री अजीवः न चाप्यभव्या, न चापि दर्शनविरोधिनी, नो अमानुष्या, नो अनार्योत्पन्ना नो असंख्ये यायुष्का, नो अतिक्रूरमतिः, नो अनुपशान्तमोहा, नो अशुद्धाचारा, नो अशुद्धशरीरा, नो व्यवसायवर्जिता नो अपूर्वकरण विरोधिनी नोनवगुणस्थानरहिवा, नो अयोग्या लब्ध्याः , नो अकल्याणभाजनमिति कथं नोत्तमधर्मस्य साधिका ? इति ।
118 goll