________________
योग
शास्त्रम्
तृतीय प्रकाशा
॥४५९॥
केन रजोहरणादिना द्रव्यलिन सिद्धाः स्वलिङ्गसिद्धाः । ११ । अन्येषां परिव्राजकादीनां लिन सिद्धाः अन्यलिङ्गसिद्धाः।१२। गृहिलिङ्गसिद्धा मरुदेव्यादयः ।१३। एकैकस्मिन् समये एकाकिनः सिद्धाः एकसिद्धाः ॥१४॥ एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धाः अनेकसिद्धाः ।१५। यत उक्तम्१बत्तीसा अडयाला सही बाहत्तरी य बोद्धव्वा । चुलसीई छण्णउई दुरहिअमहोत्तरसयं च ॥१॥
नन्वते सिद्धभेदा आधयोस्तीर्थसिद्धाऽतीर्थसिद्धयोरेवाऽन्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वेति । सत्यम्, सत्यप्यन्तर्भावे पूर्वभेदद्वयादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदुष्टमिति । इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसनोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्धमानस्वामिनः स्तुति करोति___ जो देवाण वि देवो जे देवा पंजली नमसंति । त देवदेवमहि सिरसा वन्दे महावीरं ॥२॥ __यो भगवान् महावीरो देवानामपि भवनवास्यादीनां पूज्यत्याद् देवः, अत एवाह-यं देवाः प्राञ्जलयो विनयरचितकरसम्पुटाः सन्तो नमस्यन्ति प्रणमन्ति, तं भगवन्तं देवदेवैः शक्रादिभिमहितं पूजितम्, वन्दे शिरसा उत्तमाङ्गन आदरप्रदर्शनार्थ चैतत् । तक? महाबोरम्, विशेषेण ईरयति कर्म गमयति याति वा - शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम् । इत्थं स्तुति कृत्वा पुनः परोपकाराय आत्मभाववृद्धये च फल प्रदर्शनपरमिदं पठति(१) द्वात्रिंशदष्टचत्वारिंशत् षष्टिासप्ततिश्च बोद्धव्याः। चतुरशीतिः षण्णवतिद्वधिकमष्टोत्तरशतं च ॥ १॥
॥४५९॥