________________
योगशास्त्रम्
॥४५८॥
अगसिद्धा १५ । तत्र तीर्थे चतुर्विधभ्रमणसङ्के उत्पन्ने सति ये सिद्धाः ते तीर्थसिद्धाः | १| अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा तदा तीर्थस्याऽनुत्पन्नत्वात् । २ । तीर्थकर सिद्धाः तीर्थकरत्वमनुभूय सिद्धाः । ३ । अतीर्थकर सिद्धाः सामान्यकेवलित्वे सति सिद्धाः। ४ । स्वयं बुद्धाः सन्तो ये सिद्धाः ते स्वयंबुद्धसिद्धाः | ५ | प्रत्येकबुद्धाः सन्तो ये सिद्धाः तं प्रत्येकबुद्धसिद्धाः। ६ । स्वयम्बुद्धप्रत्येकबुद्धयोश्च बोध्युपधिश्रुतलिङ्गकृतो विशेषः – स्वयं बुद्धा हि बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धास्तु बाह्यप्रत्ययेन वृषभादिना करकण्डवादिवत्, उपधिस्तु स्वयंबुद्धानां पात्रादिर्द्वादशधा, प्रत्येकबुद्धानां प्रावरणवर्जी नवविधः स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव; लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता लिङ्ग प्रयच्छति; बुद्धा आचार्या अवगतत्वाः तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धाः । ७ । एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, केचित् पुंलिङ्गसिद्धाः केचित् नपुंसकलिङ्गसिद्धाः । ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति ?, उच्यते, भवन्त्येव -- यदुक्तं सिद्धप्राभृते--१सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरतित्थे नोतित्थयरसिद्धा असंखेज्जगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखिज्जगुणाओ, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेज्जगुणा इति । नपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुलिङ्ग सिद्धा एव । ८ । ९ । १० । स्वलि
(१) सर्वस्तोकास्तीर्थकरी सिद्धास्तीर्थेकरतीर्थे नोतीर्थंकरसिद्धा असंख्ययेयगुणाः, तीर्थकरीतीर्थे नोतीर्थंकरीसिद्धा असंख्येय गुणाः, तीर्थकरीतीर्थे नोतीर्थकरसिद्धा असंख्येयगुणाः ।
तृतीय
प्रकाशः
॥४५८॥