________________
योग
शास्त्रम् ४६८॥
रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दनम्, यदि वाऽङ्कुशाक्रान्तस्य हस्तिन इव शिरोनमनोभमने कुर्वाणस्य वन्दनम् । ६ । कच्छपरिङ्गितमूर्ध्वस्थितस्य तित्तिसणयरा इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा अहो कार्य काय इत्यादिसूत्रमुच्चारयतोऽग्रतोऽभिमुखं पश्चादभिमुखं च रिङ्गतचलतो वन्दनम् । ७ । मत्स्योद्वृत्तमुत्तिष्ठनिविशमानो वा जलमध्ये मत्स्य इवोद्वर्तते उद्वेल्लते यत्र तत् । यद्वा एकं वन्दित्वा द्वितीयस्य साधोर्द्वतं द्वितीयपार्श्वेन रेचकावर्तेन मत्स्यवत् परावृत्य वन्दनम् । ८ । मनसा प्रदुष्टं शिष्यस्तत्सम्बन्धी वा गुरुणा किञ्चित्परुषमभिहितो यदा भवति तदा मनसो दूषितत्वाद् मनसा प्रदुष्टं यद्वा वन्दयो हीनः केनचिद्गुणेन ततोऽहमेवंविधेनाऽपि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनम् | ९| वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा जानु करद्वयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्वद्धं युक्तं वन्दनम् । १० । बिभ्यत् सङ्घात् कुलात् गच्छात् क्षेत्राद्वा निष्कासयिष्येऽहमिति भयाद् वन्दनम् | ११ | भजमान भजते मां सेवायां पतितो मम अग्रे वा मम भजनं करिष्यति ततोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीति बुद्धया वन्दनम् | १२| मैत्रीतो मम मित्रमाचार्य इति, आचार्येणेदानीं मैत्री भवत्विति वा वन्दनम् । १३ । गौरवाद्वन्दनकसामाचारी कुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्तादीनाराधयतो वन्दनम् । १४ । कारणाद् ज्ञानादिव्यतिरिक्ताद्वत्रादिलाभहेतो वन्दनम्, यद्वा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीत्यभिप्रायतो वन्दनम्, यद्वा वन्दनकमूल्यवशीकृतो मम प्रार्थनाभङ्ग न करिष्यतीति बुद्धया वन्दनम् ॥१५॥ स्वैनिकं मम लाघवं भविष्यतीति परेभ्य आत्मानं निगूहयतो वन्दनम्, अयमर्थ:- एवं नाम शीघ्रं वन्दत यथा स्तेनवत् केनचिद् दृष्टः केनचिनेति ।
तृतीय प्रकाशः
૪૬ના