________________
योगशास्त्रम्
॥४५५॥
त्थम्भूतो धर्मः श्रुतधर्मो वर्धतां वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणं शाश्वतमप्रच्युत्या वर्धतामिति; विजयतः परवादिविजयेन, धर्मोत्तरं चारित्रधर्मोत्तरं वर्धताम् पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्य्या इति प्रदर्शनार्थम् । तथा च तीर्थकरनामकर्महेतून प्रतिपादयतोक्तम्- ' अपुव्वनाणगहणे ' इति । प्रणिधानमेतन्मोक्ष
कल्पं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थं कायोत्सर्गार्थं पठति पठन्ति वा । सुअस्स भगवओ करेमि काउस्सग्गमित्यादि वोसिरामीति यावदथः पूर्ववत् । नवरम् - श्रुतस्येति प्रवचनस्य सामायिका देबिन्दुसारपर्यन्तस्य, भगवतो यशोमाहात्म्यादियुक्तस्य, ततः कायोत्सर्गकरणं पूर्ववत्पारयित्वा श्रुतस्य स्तुतिं पठति । ततश्च अनुष्ठानपरम्पराफलभूतेभ्यः सिद्धेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा -
सिद्धाणं बुद्धाणं पारगयाणं परम्परगयाणं । लोअग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥ १ ॥
सिद्ध्यन्ति स्म सिद्धा ये येन गुणेन निष्पन्नाः परिनिष्ठिताः सिद्धौदनवद् न पुनः साधनीया इत्यर्थः तेभ्यो नम इति योगः । ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति यथोक्तम्
कम्मे सिप्पे य विज्जाअ मंते जोगे य आगमे । अत्य जत्ता अभिप्पाए तवे कम्मक्खए इअ ॥ १ ॥ तत्र कर्म आचार्योपदेशरहितं भारवहनकृषिवाणिज्यादि, तत्र सिद्धः, परिनिष्ठितः सह्यगिरिसिद्धवत् । शिल्पं त्वाचार्योपदेशजं तत्र सिद्धः, कोकासवर्धकिवत् । विद्या जपहोमादिना फलदा मन्त्रो जपादिरहितः पाठमात्रसिद्धः, स्त्रीदेवताऽधिष्ठाना विद्या पुरुषदेवताधिष्ठानस्तु मन्त्रः । तत्र विद्यासिद्ध आर्यखपुटवत् मन्त्रसिद्धः १ कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षय इति ॥ १ ॥
तृतीय
সন্ধাश:
॥४५५