________________
योगशास्त्रम्
॥४५६॥
स्तम्भाकर्षकवत् । योग औषधिसंयोगः, तत्र सिद्धो योगसिद्धः आर्यसमितवत्, आगमो द्वादशाङ्गं प्रवचनं तत्रासाधारणार्थावगमात्सिद्धः आगमसिद्धो गौतमवत्, अर्थो धनम् स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याविना यात्रा स यात्रासिद्धस्तुण्डिकवत् । यमर्थमभिप्रैति तमर्थ तथैव यः साधयति सोऽभिप्राय सिद्धोऽभय कुमारवत् । यस्य सर्वोत्कृष्टं तपः स तपःसिद्धो दृढप्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्म निर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत् । अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिहार्थमाह-बुद्धेभ्यः अज्ञाननिद्राप्रमुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः तेभ्यः । एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैश्चिदिष्यन्ते
न संसारे न निर्वाणे स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥ १ ॥
ईति वचनात् । एतन्निरासार्थमाह - पारगतेभ्यः पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा, गताः पारगताः तेभ्यः, एते च यदृच्छावादिभिः कैश्चिदरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते, तद्व्युदासार्थमाह — परम्परगयाणं — परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया, अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्रया सम्यग्दर्शनं तस्मात् सम्यग्ज्ञानं तस्मात् सम्यक्चारित्रमित्येवम्भूतया गता मुक्तिस्थानं प्राप्ताः परम्परागताः तेभ्यः । एते च कैश्चिदनियतदेशा अभ्युपगम्यन्ते,
यत्र क्लेशक्षयस्तत्र विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह तदभावान्न जातुचित् ॥ १ ॥
इति वचनात् एतन्निरासायाह - लोकाग्रमुपगतेभ्यः लोकाग्रमीषत्प्राग्भाराख्यायाः पृथिव्या उपरिक्षेत्रं तदुप
तृतीय प्रकाशः
॥४५६॥