________________
योगशास्त्रम्
तृतीय
॥४५४॥
पुष्कलं सम्पूर्णम्, न च तदल्पं किन्तु विशालं विस्तीर्णमेवम्भूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविशालसुखावहः तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चाऽस्य विशिष्टार्थप्रापक त्वमाह । देवानां दानवानां नरेन्द्राणां च गणैरचितस्य पूजितस्य, सुरगणनरेन्द्रमहितस्य इति, अस्यैव निगमनं देवदानवेत्यादि । यतश्चैवमतः
सिद्धे भो! पयो नमो जिणमए नंदी सया संयमे, देवनागसुवण्णकिन्नरगणस्सम्भूअभावच्चिए ।
लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चामुरं, धम्मो वड्ढउ सासयं विजयओ धम्मुत्तरं वड्ढउ ॥४॥ सिद्धः फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटिपरिशुद्धत्वेन च प्रख्यातस्तस्मिन्, भो इत्यतिशयिनामामन्त्रणम् पश्यन्तु भवन्तः प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्यं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति, नमो जिणमए नमो जिनमताय, प्राकृतत्वाच्चतुर्थ्याः सप्तमी । अस्मिश्च सति नन्दिः समृद्धिः, सदा सर्वकालम्, संयमे चारित्रं भूयात् । उक्तं च-(१) ' पढमं नाणं तओ दया'। किंविशिष्टे संयमे ?, देवनागसुपर्णकिन्नरगणैः सद्भूतभावेनार्चिते-देवा विमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किनरा व्यन्तरविशेषाः, उपलक्षणं शेषाणां, देवमित्यनुस्वारः छन्दःपूरणे, तथा च संयमवन्तोऽर्थ्यन्त एव देवादिभिः । यत्र जिनमते, किं यत्र ? लोकनं लोको ज्ञानम्, प्रतिष्ठितः तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः; केचिन्मनुष्यलोकमेव जगन्मन्यन्ते, अत आह-त्रैलोक्यमासुरमाधाराधेयरूपम् । अयमि
(१) प्रथमं ज्ञानं ततो दया ।
४५४॥
FORSE