________________
योगशाखम्
तृतीय प्रकाशा
॥४५३॥
तमतिमिरपडलविद्धंसणस्य सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥२॥
तमोऽज्ञानम् तदेव तिमिरम्, अथवा बद्धस्पृष्टनिधत्तं ज्ञानावरणीय कर्म तमः; निकाचितं तिमिरं, ततस्तमस्तिमिरस्य, तमस्तिमिरयोर्वा पटलं वृन्दम्, तद्विध्वंसयति विनाशयतीति नन्दादित्वादने तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनेवास्य प्रवृत्तेः । सुरगणैश्चतुर्विधाऽमरनिकायैनरेन्द्रश्चक्रवर्त्यादिभिर्महितः पूजितस्तस्य । आगममहिमां हि कुर्वन्त्येव सुरासुरादयः। सीमां मर्यादाम, सीमायां वा धारयतीति सीमाधरस्तस्य, श्रुतधर्म इति विशेष्यम्, ततः कर्मणि द्वितीया, तस्याश्च “कचिद् द्वितीयादेः" ।। ८।३।१३४ ॥ इति प्राकृत्स्त्रात् षष्ठी, अतस्तं वन्दे, तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी; अथवा तस्य वन्दे वन्दनं करोमीति । प्रकर्षण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य । श्रुतधर्मे हि सति विवेकिनो मोहजालं मिथ्यात्वादिरूपं विलयमुपयात्येव ॥ इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह
जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालमुहावहस्स ।
को देवदाणवनरिंदगणच्चिअस्स, धम्मस्स सारमुक्लब्भ करे पमायम् ? ॥ ३ ॥ कः सचेतनः, धर्मस्य श्रुतधर्मस्य, सारं सामर्थ्यम्, उपलभ्य विज्ञाय, श्रुतधर्मोदितेऽनुष्ठाने, प्रमादमनादरं कुर्यात् ?, न कश्चित् कुर्यादित्यर्थः । किं विशिष्टस्य श्रुतधर्मस्य ? जातिजन्म, जरा विश्रसा, मरण प्राणनाशः, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति, जातिजरामरणशोकप्रणाशनः तस्य, श्रुतधर्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम् । कल्यमारोग्यमणति शब्दयति इति कल्याणम् ,
॥४५३॥