________________
योगशास्त्रम्
तृतीय प्रकाशा
ilધરા
तत्प्रदीपस्थानीयं सम्यक श्रुतमर्हति कीर्तनम्, तत्रापि तत्प्रणेतृन् भगवतः प्रथमं स्तौतिपुक्खरवरदीवढे धायइखंडे अ जम्बुद्दीवे अ । भरहेरवयविदेहे धम्माइगरे नमसामि ॥१॥
भरतं भरतक्षेत्रम्, ऐरवतमैरवतक्षेत्रम्, विदेहमिति भीमो भीमसेन इति न्यायाद् महाविदेहक्षेत्रम्, एवं समाहारद्वन्द्वः, तेषु भरतैरवतविदेहेषु धर्मस्य श्रुतधर्मस्यादिकरान् सूत्रतः प्रथमकरणशीलान् , नमस्यामि स्तुवे । क यानि भरतैरवतमहाविदेहक्षेत्राणि', इत्याह-पुष्कराणि पद्मानि, तेर्वरः पुष्करवरः स चासौ द्वीपश्च पुष्करवरद्वीपः तृतीयो द्वीपः तस्या, मानुषोत्तराचलादर्वाग्भागवति, तत्र द्वे भरते, द्वे ऐरवते द्वे महाविदेहे, तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपः तस्मिन् , द्वे भरते, द्वे ऐवते, द्वे महाविदेहे । जम्ब्या उपलक्षितः तत्प्रधानो वा द्वीपो जम्बूद्वीपः, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदशकर्मभूमयः शेषास्त्वकर्मभूमयः यदाह-"भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरूभ्यः” (तत्त्वा-३॥१६) महत्तरक्षेत्रप्राधान्याङ्गीकरणात्पश्चानुपूर्व्या निर्देशः । धर्मादिकरत्वं यथा भगवतां भवति तथा अपौरुषेयवादनिराकरणावसरे प्राग्निीतम् । नन्वेवमपि कथं धर्मादिकरत्वं भगवताम्, 'तप्पुव्विा अरहया' इति वचनात् वचनस्यानादित्वात् ? नैवम्, बीजाङ्कुरवत्तदुपपत्तेः--बीजाद्धि अङ्कुरो भवति अङ्कुराच्च बीजमिति । एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात्तीर्थकरत्वम् , तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव । न चाऽयं नियमः श्रुतधर्मपूर्वकमेवाहत्त्वमिति मरुदेव्यादीनां श्रुतधर्मपूर्वकत्वाभावेऽपि केवलज्ञानश्रवणादित्यलं प्रसङ्गेन । एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता । इदानीं श्रुतधर्मस्याह
॥४५२॥