________________
योग
शास्त्रम्
तृतीय प्रकाशा
॥४५१॥
तथाचंदेसु निम्मलयरा आइच्चेसु अहियं पयासयरा । सागरवरगम्भीरा सिद्धा सिद्धिं मम दिसन्तु ॥७॥
“पञ्चम्याम्तृतीया च" ||८॥३॥१३६॥ इति पञ्चम्यर्थे सप्तमी, अतश्चन्द्रेभ्योऽपि निर्मलतराः सकलकर्ममलापगमात्, पाठान्तरं वा चन्देहि निम्मलयरा, एवमादित्येभ्योऽप्यधिकं प्रकाशकराः, केवलोद्योतेन लोकालोकप्रकाशकत्वात् । उक्तं च१चंदाइचगहाणं पहा पयासेइ परिमिअं खित्तं । केवलिअनाणलम्भो लोआलोअं पयासेइ ॥१॥
सागरवरः स्वयम्भूरमणाख्यः समुद्रः, परीषहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीराः सिद्धाः कर्मविगमात् कृतकृत्याः, सिद्धि परमपदप्राप्तिम्, मम दिशन्तु प्रयच्छन्तु । एवं चतुर्विशतिस्तवमुक्त्वा सर्वलोक एवाईच्चैत्यानां वन्दनाद्यर्थ कायोत्सर्गकरणायेदं, पठति, पठन्ति वा। सव्वलोए अरिहंतचेइआणं करेमि काउस्सग्गमित्यादि वोसिरामीति यावत् । व्याख्या पूर्ववत् । नवरम्, सर्वश्चासौ लोकश्च अधस्तिर्यगर्ध्वभेदस्तस्मिंस्त्रैलोक्ये इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवाईच्चैत्यानि, ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । इदानीं सर्वेऽहंन्तस्तद्गुणा इति सर्वलोकसंग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणी स्तुतिः । अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न सम्यगतिप्रसङ्गादिति सर्वतीर्थकराणां स्तुतिरुक्ता । इदानीं येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते
(१) चन्द्रादित्यगृहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् । केवलिकज्ञानलाभो लोकालोकं प्रकाशयति ॥२॥
SwederPAaPeepance
॥५१॥