________________
योगयास्त्रम्
तुनीय
प्रकाशा
118'ROLL
दपरा भवन्तु । ते च वीतराग़त्वाद्यधपि स्तुताः तोषम्, निन्दिताश्च द्वेष न यान्ति, तथाऽपि स्तोता स्तुतिफलम्, निन्दकश्च निन्दाफलमामोत्येव यथा चिन्तामणिमन्त्राधाराधकः, यदवोचाम वीतरागस्तवे
अप्रसन्नात् कथं प्राप्य फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः॥१॥
इत्युक्तमेव । अथ यदि न प्रसीदन्ति, तत्कि प्रसीदन्त्विति वृथा प्रलापेन ! । नैवम् । भक्त्यतिशयत एवमभिधानेऽपि न दोषः। यदाह-क्षीणक्लेशा एते न हि प्रसीदन्ति, न तत्स्तवोऽपि वृथा, तत्स्तवभावविशुद्धः,प्र. योजन कर्मविगम इति ॥५॥ तथाकित्तिा वंदिअ महिआ जे ए लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु ॥६॥
कीर्तिताः स्वनामभिः प्रोक्ताः वन्दितास्त्रिविधयोगेन सम्यक् स्तुताः, महिताः पुष्पादिभिः पूजिताः। मइआ इति पाठान्तरम्, तत्र मयका मया । के एते ?, इत्याह-ये एते लोकस्य प्राणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः, प्रकृष्टाः, सिद्धयन्ति स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थम् बोधिलाभः अर्हत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम्, तदर्थ च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव, अत आह-उत्तम सर्वोत्कृष्टं ददतु प्रयच्छन्तु, एतच्च भक्त्योच्यते । यत उक्तम्१भासा असच्चमोसा नवरं भतीइ भासिआ एसा । न हुखीणपिज्जदोसा दिति समाहिं च बोहिं च ॥१२॥ इति (१) भाषा असत्यमृषा नवरं भक्त्या भाषितेषा । न खलु क्षीणप्रेमदोषा ददति समाधि च बोधि च ॥१२॥
॥४५ou