________________
योगशाखम्
तृतीय प्रकाशा
४४६।।
तधा देव्याश्चन्द्रपानदोहदोऽभूत, चन्द्रसमवर्णश्च भगवानीति चन्द्रप्रभः । ८ । शोभनो विधिः सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः, पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम । ९। सकलसत्त्वसन्तापहरणाच्छीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः । १० । सकलभुवनस्याऽपि प्रशस्यतमत्वेन श्रेयान्, श्रेयांसावंसावस्येति पृषोदरादित्वात् श्रेयांसो वा, तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः । ११ । वसवो देवविशेषाः, तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि वासुपूज्यः, तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा " तस्येदम्" ॥६।३। ६० ॥ इत्यणि वासुपूज्यः । १२। विगतमलो विमलः, विमलानि वा ज्ञानादीन्यस्येति विमलः, तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः ॥१३ । अनन्तकर्मा शान् जयति अनन्तैर्वा ज्ञानादिभिर्जयति अनन्तजित, तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टम्, जयति च त्रिभुवनेऽपीति अनन्तजित्, भीमो भीमसेन इति न्यायादनन्त इति ।१४। दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तथा गर्भस्थे जननी दानादिधर्मपरा जाति धर्मः। १५ । शान्तियोगात्, तदात्मकत्वात् तत्कर्तृत्वाद्वा शान्तिरिति, तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः । १६ । कुः पृथ्वी तस्यां स्थितवानिति निरुक्तात् कुन्थुः तथा गर्भस्थे जननी रत्नानां कुन्थु राशि दृष्टवतीति कुन्थुः । १७ । सर्वो नाम महासत्त्वः कुले य उपजायते । तस्याऽभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १॥
॥४४६॥