________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४४५॥
उसभमजिअं च वंदे संभवमभिनंदणं च सुमई च । पउमप्पहं मुपास जिणं च चंदप्पहं वंदे ॥ २ ॥ मुविहिं च पुप्फदंतं सीअल सिज्जंस वासुपुज्जं च । विमलमणंतं च जिणं धम्म संतिं च बंदामि ॥ ३ ॥ कंथु अरं च मल्लि वन्दे मुणिमुव्वयं नमिजिणं च वंदामि रिहनेमि पासं तह बद्धमाणं च ॥४॥
समुदायार्थः सुगमः । पदार्थस्तु विभज्यते, स च सामान्यतो विशेषतश्च । तत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, “ उदृत्वादौ " ॥८१। १३१ ॥ इत्युत्वे उसहो । वृषभ इत्यपि, बर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगत्, इत्यस्यान्वर्थः, " वृषभे वा वा,” ॥ ८॥१।१३३ ॥ इति वकारेण ऋत उत्वेऽस्यापि उसहो। विशेषतस्तु ऊर्वोवृषभो लाग्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वप्नानामादा. वृषभो दृष्टस्तेन ऋषभो वृषभो वा ॥१॥ परीपहादिभिन जित इति अजितः, तथा गर्भस्थे भगवति जननी द्यते राज्ञा न जिता इत्यजितः । २। सम्भवन्ति प्रकर्षण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुख भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र “शपोः सः” ॥८१२६०॥ इति सत्वे सम्भवः तथा गर्भगतेऽप्यस्मिन् अभ्यधिकसस्यसम्भवात्सम्भवः । ३। अभिनन्धते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात्प्रभृति एवाऽभीक्ष्णं शक्नाद्यभिनन्दनात् अभिनन्दनः । ४ । सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति मुमतिः। ५। निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्याऽसौ पद्मप्रभः, तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति. पद्मवर्णश्च भगवानिति पद्मप्रभः । ६। शोभनाः पार्खा अस्येति सुपार्श्वः, तथा गर्भस्थे भगवति जनन्यपि सुपा जातेति सुपार्श्वः। ७। चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः,
४४५॥