________________
योगशास्त्रम्
तृतीय प्रकाशः
SSSSUEARCH
॥४४॥
स्तुति पठति. अन्ये तु कायोत्सर्गस्थिता एव श्रृण्वन्ति यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति | तदनन्तरं तस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतो अभूवन् तेषामेवैकक्षेत्रनिवासिनामासनोपकारित्वेन कीर्तनाय
चतुर्विशतिस्तवं पठति, पठन्ति वा । तथा__ लोगस्स उज्जोअगरे धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं चउवीसंपि केवली ॥१॥
अरिहंत इति विशेष्यपदम् अर्हत उक्तनिर्वचनात् (न्), कीर्तयिष्ये नामोच्चारणपूर्वकं स्तोष्ये. ते च राज्याघवस्थासु द्रव्याईन्तो भवन्तीति भावाईत्त्वप्रतिपादनायाह-केवलिन उत्पन्न केवलज्ञानाद्भावाईत इत्यर्थः, अनेन ज्ञानातिशय उक्तः, तत्संख्यामाह-चतुर्विशतिमपि, अपिशब्दादन्यानपि, किं विशिष्टान् ? लोकस्योद्दद्योतकरान् लोक्यते प्रमाणेन दृश्यत इति लोकः पश्चास्तिकायात्मकस्तस्योद्योतकरणशीलान् , केवलालोकदीपेन सर्वलोकप्रकाशकरणशीलान् इत्यर्थः। ननु केवलिन इत्यनेनैव गतार्थमेतल्लोकोद्दद्योतकरणशीला एव हि केवलिनः । सत्यम् , विज्ञानाद्वैतनिरासेनोद्योतकराः उद्दयोत्यस्य भेददर्शनार्थम् , लोकोद्दद्योतकरत्वं च तत्स्तावकानामुपकाराय, न चाऽनुपकारिणः कोऽपि स्तौति इत्युपकारकत्वप्रदर्शनायाह-धर्मतीर्थकरान् धर्म उक्तस्वरुपः तीर्यतेऽनेन तीर्थ धर्मप्रधानं तीर्थ धर्मतीर्थ धर्मग्रहणाद द्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिनश्च अधर्मप्रधानस्य परिहारः, तत्करणशीला धर्मतीर्थकराः तान् सदेवमनुजासुरायां पर्षदि सर्बभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तकानित्यर्थः, अनेन पूजातिशयो वागतिशयश्चोक्तः । अपायापगमातिशयमाह-जिनान् रागद्वेषादिजेतृनित्यर्थः ।
यदुक्तं कीर्तयितु मीति तत्कीर्तनं कुर्वनाह