________________
योगशाखम्
तृतीय प्रकाशा
॥४४३॥
तनिमित्तं । ननु साधुश्रावकयोर्बोधिलाभोऽस्त्येव तत्किं सतस्तस्य प्रार्थनया बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव, उच्यते-क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवाद् जन्मान्तरे च तस्यार्थ्यमानत्वाग्निरुपसर्गोऽपि तवारेण प्रार्थ्यत एवेति युक्तोऽनयोरुपन्यासः। अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह-सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वढमाणीए ठामि काउस्सगं-श्रद्धा मिथ्यात्वमोहिनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी, तया श्रद्धया, न तु बलाभियोगादिना, एवं मेधया न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः अथवा मेधया मर्यादावर्तितया, नासमजसत्वेन । एवं धृत्या मनःसमाधिलक्षणया, न रागद्वेषाद्याकुलतया । एवं धारणया अर्हदगुणाविस्मरणरूपया, न तु तच्छून्यतया । एवमनुप्रेक्षयाऽहंद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न तवैकल्येन वर्धमानतयेति श्रद्धादिभिः प्रत्येकमभिसम्बन्ध्यते । श्रद्धादीनां क्रमोपन्यासो लाभापेक्षया श्रद्धायां हि सत्यां मेधा तद्भावे धृतिस्ततो धारणा तदन्वनुप्रेक्षा वृद्धिरप्यासामेव । तिष्ठामि करोमि कायोत्सर्ग। ननु प्राक्करोमि कायोत्सर्गमित्युक्तं साम्प्रतं तिष्ठामीति किमर्थमुच्यते ? सत्यं सत्सामीप्ये सद्वत्प्रत्ययो भवतीति करोमि करिष्यामि इति क्रियाऽभिमुख्यं पूर्वमुक्तमिदानीं त्वासनतरत्वात् क्रियाकालनिष्ठाकालयोः कथश्चिदभेदात् तिष्ठाम्यवाहमिति । किं सर्वथा तिष्ठामि कायोत्सर्ग ? नेत्याह-अन्नत्थ ऊससिएणमित्यादि व्याख्यातं पूर्व । कायोत्सर्गश्चाष्टोच्छ्वासमात्रो न त्वत्र ध्येयनियमोऽस्ति । कायोत्सर्गान्ते च यद्येक एव ततो नमो अरिहंताणमिति नमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वनस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुति पठति । अथ बहवस्तत एक एव
॥४४३॥