________________
योगशाखम्
तृतीय प्रकाशा
॥४४॥
टयणि चैत्यं बहुविषयत्वे चैत्यानि । तत्राऽहतां प्रतिमा हि प्रशस्तसमाधिचित्तोत्पादकत्वादहच्चैत्यानि भण्यन्ते तेषां । किं ? वन्दनादिप्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः-कायस्य शरीरस्य उत्सर्गः कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्यागस्तं करोमि। वंदणवत्तिआए--वन्दनप्रत्यय, वन्दनमभिवादनं प्रशस्तकायवाङ्मनः प्रवृत्तिरित्यर्थः, तत्प्रत्ययं तनिमित्तं । कथं नाम कायोत्सर्गादेव मम वन्दनं स्यादिति वत्तिआए इत्यार्षत्वात्सिद्धमेवं सर्वत्र द्रष्टव्यम् । तथा पूअणवत्तिआए पूजनप्रत्ययं पूजननिमित्तं पूजनं गन्धमाल्यादिभिरभ्यर्चनम् । तथा सकारवत्तिआए-सत्कारप्रत्ययं सत्कारनिमित्त, सत्कारः प्रवरवस्त्राभरणादिभिरभ्यर्चनम् , ननु च यतेः पूजनसत्कारावनुचितौ द्रव्यस्तवत्वात् ; श्रावकस्य तु साक्षात्पूजासत्कारकर्तुः कायोत्सर्गद्वारेण तत् प्रार्थना निष्फला, उच्यते-साधोव्यस्तवप्रतिषेधः करणमधिकृत्य, न पुनः कारणानुमती, यत उपदेशदानतः कारणसद्भावो भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि । यदाहरसुव्वइअवइररिसिणा कारवणं पि अ अणुट्ठियमिमस्स । वायगगन्थेसु तहा आगया देसणा चेव ॥१॥
श्रावकस्तु सम्पादयन्नपि एतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारौ प्रार्थयमानो न निष्फलारम्भः, तथा सम्माणवत्तिआए-सन्मानप्रत्ययं सन्माननिमित्तं सन्मानः स्तुत्यादिभिर्गुणोन्नतिकरणं मानसप्रीतिविशेष इत्यन्ये । अथ वन्दनादयः किंनिमित्तमित्याह-बोहिलाभवत्तिआए-बोधिलाभोऽहत्प्रणीतधर्मावाप्तिस्तत्प्रत्यय तन्निमित्तं । बोधिलाभोऽपि किंनिमित्तमित्याह-निरुवसग्गवत्तिआए-जन्माधुपसर्गाभावेन निरुपसर्गों मोक्षस्तत्प्रत्यय (१) सुवतिकवर्षिणा कारणमपि चानुष्ठितमस्य । वाचकग्रन्थेषु तथा आगता देशना चैव ॥३॥
1॥४२॥