________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४१॥
अत एव कायप्रमाणमात्मेति सुस्थितं वचनं, तेभ्यो नम इति क्रियायोगः, एवंभूता एव प्रेक्षावतां नमस्काराहा, आद्यन्त सङ्गतश्च नमस्कारो मध्यव्यापीति । जितभया अप्येते एव नान्ये इति प्रतिपादयितुमुपसंहरबाह-नमो जिणाण जिअभयाणं-नमो जिनेभ्यो जितभयेभ्य इति । तदेवं सव्वन्नूण सव्वदरिसीणमित्यत आरभ्य नमो जिणाणं जिअभयाणमित्येवमन्तैखिभिरालापकैः प्रधानगुणापरिक्षयप्रधानफलावाप्तिरुपा सम्पन्नवमी ।९। अत्र स्तुतिप्रस्तावान पौनरुक्त्यशङ्का करणीया । यदाह
सज्झाय-ज्झाण-तव-ओसहेसु उवएस-थुइ पयाणेसु । सन्तगुणकित्तणेसु य न होन्ति पुणरुत्तदोसा ओ(उ) ॥१॥
एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणाज्जिनजन्मादिषु स्वर्विमानेषु तीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते, अयश्च प्रायेण भावाईद्विपयो भावादध्यारोपाच्च स्थापनाईतामपि पुरः पठयमानो न दोषाय, प्रणिपातदण्डकानन्तरं चाऽतीतानागतवर्तमानजिनवन्दनार्थ केचिदेतां गाथां पठन्ति
जे अ अईआ सिद्धा जे अ भविस्संति णागए काले । संपइ अ वट्टमाणा सव्वे तिविहेण वंदामि ॥१॥ सुगमा चेयम् । ततश्चोत्थाय स्थापनाईद्वन्दनार्थ जिनमुद्रया अरिहंतचेइयाणमित्यादिसूत्रं पठति । अर्हतां पूर्वोक्तस्वरुपाणां चैत्यानि प्रतिमालक्षणानि अर्हच्चैत्यानि-चित्तमन्तःकरणं तस्य भावः कर्म वा वर्णदृढादित्वात्
(१) स्वाध्याय-ध्यान-तप-औषधेषूपदेश-स्तुति-प्रदानेषु । सद्गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ।।१।। (२) ये चातीताः सिद्धा ये च भविष्यन्त्यनागते काले । सम्प्रति च वर्तमानाः सर्वान् त्रिविधेन वन्दे ॥२॥
॥४१॥