________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४४०॥
मिति, न धर्मधर्मिणोः सर्वथाभेदानभ्युपगमात् । ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते अभ्यन्तरीकृतविषमताख्यधर्माण एव समताधर्मविशिष्टा दर्शनेन गम्यन्ते इति ज्ञानदर्शनयो ऽसर्वार्थविषयत्वमिति सर्वज्ञाः सर्वदर्शिनश्च तेभ्यः। एते च सर्वगतात्मवादिभिर्मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते । यदाहुस्ते-"मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः" इति । तनिराकरणार्थमाह-सिवमयलमरुअमणतमक्खयमबाबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं-शिवं सर्वोपद्रवरहितत्वात्, अचलं स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात, अरुजं व्याधिवेदनारहितं तनिबन्धनयोः शरीरमनसोरभावात्, अनन्तमनन्तज्ञानविषयत्वयुक्तत्वात्, अक्षयं विनाशकारणाभावात्, अव्याबाधमकर्मत्वात्, अपुनरावृत्ति न पुनरावृत्तिः संसारेऽवतारो यस्मात्, सिद्धिगतिनामधेय सिद्धिगतिरेव सिद्धयन्ति निष्ठितार्था भवन्त्यस्यां जन्तव इति सिद्धोंकान्तक्षेत्रलक्षणा सैव गम्यमानत्वादगतिः, सिद्धिरेव नामधेय यस्य तत्तथा, स्थानं तिष्ठिन्त्यस्मिन्निति स्थान व्यवहारतः सिद्धिक्षेत्रम् । यदाहुः-१इह बुन्दि चइत्ता ण तत्थ गंतूण सिज्झइ" इति । निश्चयतस्तु स्वस्वरूपमेव सर्वे भावा आत्मभावे तिष्ठन्तीति वचनात्, विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा सम्भवन्ति तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं स्थानं सम्प्राप्ताः सम्यगशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या प्राप्तास्तेभ्यः, न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात, नित्यानां चैकरूपतया अवस्थानं तद्भावाव्ययस्य नित्यत्वात् । अतः क्षेत्रतोऽसर्वगतपरिणामिनामेवैवं प्राप्तिः सम्भवति,
(१) इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति ।
॥४४oll