________________
तृतीय प्रकाशा
योगशास्त्रम् ॥४३९॥
मुत्ताण मोअगाणं-चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वात मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात् हीनादिकरणे च रागद्वेषाऽनुषङ्गः, न चान्यत्राऽन्यस्य लयः सम्भवति एकतराभावप्रसङ्गात्, एवं च जगत्कर्तरि लयाभावाद् मुक्तत्वसिद्धिः, एवं मोचयन्त्यन्यानपीति मोचकास्तेभ्यः, एवं च जिनत्वजापकत्वतीर्णत्वतारकत्वबुद्धत्वबोधकत्वमुक्तत्वमोचकत्वैः स्वपरहितसिद्धेरात्मतुल्यफलकर्तृत्व सम्पदष्टमी ।। ८॥ एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिन एवेष्यन्ते बुद्धयध्यवसितमर्थ पुरुषश्चेतयते इति वचनात् एतनिराकरणायाह-सव्वन्नूणं सव्वदरिसीण-सर्व जानन्तीति सर्वज्ञाः सर्व पश्यन्तीत्येवंशीलाः सर्वदर्शिनः तत्स्वभावत्वे निरावरणत्वात् । उक्त चस्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥ १॥
न करणाभावे कर्ता तत्फलसाधक इत्यप्यनैकान्तिकम् , परनिष्ठितप्लवकस्य तरण्डकाभावेऽपि प्लवनदर्शनात इति बुद्धिलक्षणं करणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदशित्वसिद्धिः। अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद दर्शनस्य च सामान्यविषयत्वात्, तयोः सर्वार्थविषयत्वमयुक्तं तदुभयस्य सर्वार्थविषयत्वादित्युच्यते-न हि सामान्यविशेषयोर्भेद एव, किन्तु ते एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च ते एव ज्ञायन्ते ते एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वाथविषयत्वमिति । ननु ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यते न विषमताधर्मविशिष्टा अपि । ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्व
॥४३९.1