________________
योगशास्त्रम्
तृतीय प्रकाशा
१४३८॥
हेत्वभावात् । न च तीर्थनिकारजन्मपराभवो हेतुस्तेषां मोहाभावाद मोहे वा अपवर्ग इति प्रलापमात्रमेवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् । एते च कल्पिता विद्यावादिभिः परमार्थतो जिनादय एवेष्यन्ते भ्रान्तिमात्रमसद्विद्येति वचनात् एतद्बयपोहाय आह-जिणाणं जावयाणं, रागादिजेतृत्वाज्जिनाः, न च रागादीनामसत्त्वं प्रतिप्राण्यनुभवसिद्धत्वात् , न चाऽनुभवोऽपि भ्रान्तः सुखदुःखाधनुभवेष्वपि भ्रान्तिप्रसङ्गात् एवं च जेयसम्भवाज्जिनत्वमविरुद्धम् । एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकाः तेभ्यः, एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ते काल एव कृत्स्नं जगदावर्तयति इति वचनात्, एतन्निरासायाह-तिण्णाणं तारयाणं-सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तः तोर्णाः, न चैषां तीर्णानां पारगतानामावर्तः सम्भवति तद्भावे मुक्त्यसिद्धेः, एवं च न मुक्तः पुनर्भवे भवतीति तीर्णत्वसिद्धिः, एवं तारयन्ति अन्यानपीति तारकास्तेभ्यः, एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेष्यन्ते अप्रत्यक्षा हि नो बुद्धिः प्रत्यक्षोऽर्थः इति वचनात् एतद्धयवच्छेदार्थमाह-बुद्धाणं बोहयाणं-अज्ञाननिद्राप्रमुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंविदितेन ज्ञानेन बुद्धवन्तो बुद्धाः, न चास्वसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति । न ह्यदृष्टप्रदीपो बाह्यमर्थ प्रत्यक्षीकरोति, न चेन्द्रियबदस्वसंविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणमिन्द्रियस्य भावेन्द्रियत्वात् तस्य च स्वसंविदितरुपत्वात् यदाह-" अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति" एवं च सिद्ध बुद्धत्वमेवमपरानपि बोधयन्तीति बोधकास्तेभ्यः, एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादय एवेष्यन्ते, ब्रह्मवद् ब्रह्मसङ्गतानां स्थितिरिति वचनात् एतभिराचिकीर्षयाऽऽह
४३८॥