________________
तृतीय
योगशास्त्रम्
| মঙ্কায়
॥४७॥
इति वचनादरः । तथा गर्भस्थे जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः॥१८॥ परीषहादिमल्लजयानिरुक्तान्मल्लिः, तथा गर्भस्थे मातुः एकऋतौ सर्वतसुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लि: । १९ । मन्यते जगतस्त्रिकालावस्थामिति मुनिः “मनेरुदेतौ चास्य वा" (उणा-६१२) इति इप्रत्यये उपान्त्यस्योत्वम् , शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवस्सु व्रता जातेति मुनिसुव्रतः ॥२०॥ परीषहोपसर्गादिनामनाद् 'नमेस्तु वा' (उणा-६१३) इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः ॥२१॥ धर्मचक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नअपूर्वत्वेऽरिष्टनेमिः ॥२२॥ पश्यति सर्वभावानिति निरुक्तात् पार्श्वः, तथा गर्भस्थे जनन्या निशि शयनीयस्थयाऽन्धकारे सपों दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्श्वः, पार्थोऽस्य वैयावृत्त्यकरस्तस्य नाथः पार्श्वनाथः, भीमो भीमसेन इतिवत् पार्श्वः ॥२३॥ उत्पत्तेरारभ्य ज्ञानादिभिर्वर्धत इति वर्धमानः, तथा भगवति गर्भस्थे ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्धमानः ॥२४॥
विशेषाऽभिधानर्थसंग्राहिकाश्चमाः श्रीभद्रबाहुस्वामिप्रणीता गाथाः१ऊरूसु उसहलब्छणमुसभं सुमिणम्मि तेण उसहजिणो । अक्खेसु जेण अजिआ जणणी अजिओ जिणो तम्हा ॥१॥
(१) ऊर्वोऋषभलाञ्छनमृषभं स्वप्ने तेनर्षभजिनः। अक्षेषु येनाजिता जननी अजितो जिनस्तस्मात् ॥१॥