________________
धास्त्रम्
॥४३५॥
द्विवस्तुतत्त्वं तत्प्रद्योतकरणश्च विशिष्टानामेव पूर्वविदां भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, न च तेषां
तृतीय सर्वेषामपि प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टतत्त्वसंवेदनयोग्यता, सा च विशिष्टानामेव भवति । तेन In
प्रकाशा विशिष्टचतुर्दशपूर्वविल्लोकापेक्षया प्रद्योतकराः । एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणाः स्तोतव्यस म्पदः सामान्येनोपयोगसम्पच्चतुर्थी ४ । इदानीमुपयोगसम्पद एव हेतुसंपदुच्यते-अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं-इह अभयं सप्तधा इह परलोका-ऽऽदाना--ऽकस्मादा-ऽऽजीव-मरण-श्लाघा भेदेनैतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्य निःश्रेयसे धर्मभूमिकानिबन्धनभूतं धृतिरित्यन्येषां तदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वाद् भगवन्त एव ददतीत्यभयदास्तेभ्यः, तथा घनर्देभ्यः इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते । तच श्रद्धेत्यन्येषां तद्विहीनस्याचक्षुष्मत इव वस्तुतत्त्वदर्शनायोगाद न च मार्गाऽनुसारिणी श्रद्धा सुखेनावाप्यते सत्यां चास्यां कल्याणचक्षुषो भवति वस्तुतत्त्वदर्शनम्, तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भ्य एव भवतीति चक्षुर्ददतीति चक्षुर्दाः, तथा मार्गदेभ्यः इह मार्गों भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषोऽयममुमन्ये सुखेत्याचक्षते अस्मिन्नसति न यथोचितगुणस्थानावाप्तिर्गिविषमतया चेतः स्खलनेन प्रतिबन्धोपपत्तेः. मार्गश्च भगवदभ्य एवेति मार्ग ददतीति मार्गदाः. तथा शरणदेभ्यः, इह शरणं भयार्तत्राणं तच्च संसारकान्तारगतानामतिप्रबलरागादि पीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं विविदिषेत्यन्येषामस्मिश्च सति तत्त्वगोचराः शुश्रूषाश्रवण-प्रहण-धारण-विज्ञानो-हापोह-तत्वाभिनिवेशाः प्रज्ञागुणा भवन्ति । तत्त्वचिन्तामन्तरेण तेषामभावात्
४३५॥