________________
योगशास्त्रम्
तृतीय प्रकाशा
क्रमवदसदिति वाच्यम्, सर्वगुणानामेकत्राऽन्योऽन्यसंवलितत्वेनावस्थानात् , तेषां यथारुचि स्तोत्राभिधाने न दोषः। एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव हेतुविशेषसम्पत्तृतीया ।३। इदानी स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पदमाह-लोगुत्तमाणं लोगनाहाणं लोगहिआण लोगपईवाणं लोगपज्जोअगराणं-समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधा अवयवेष्वपि प्रवर्तन्ते इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पश्चास्तिकाया उच्यन्ते, धर्मादीनां वृत्तिव्याणां भवति यत्र तत् क्षेत्रं तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यमिति वचनात् । तथापीह लोकशब्देन भव्यसत्त्वलोक एव परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः। अन्यथा अभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्भेषामतिशय उक्तः स्यात् । ततश्च भव्यसत्त्वलोकस्य सकलकल्याणनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, लोकनाथेभ्यः इह लोकशब्देन बीजाधानादिना संविभक्तो रागाद्यपद्रवेभ्यो रक्षणीयो विशिष्टो भव्यलोकः परिगृह्यते अस्मिन्नेव नाथत्वोपपत्तेः, योगक्षेमकृन्नाथ इति वचनात्, तदिह येषामेव बीजाधानोद्भेदपोषणैर्योगः, क्षेमं च तत्तदुपद्रवरक्षणेन ते एव भन्या लोकशब्देन गृह्यन्ते, न चैते योगक्षेमे सकलभव्यसत्त्वविषये कस्यचित्सम्भवतः सर्वेषामेव मुक्तिप्रसङ्गात्तस्मादुक्त स्यैव लोकस्य नाथा इति । तथा लोकहितेभ्यः,इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नःप्राणिवर्गों गृह्यते, तस्मै सम्यग्दर्शनप्ररुपणरक्षणयोगेन हिता लोकहिताः, तथा लोकप्रदीपेभ्यः, अत्र लोकशब्देन विशिष्ट एव देशनाघंशुभिर्मिथ्यात्वतमोऽपनयनेन यथाई प्रकाशित ज्ञेयभावः संज्ञिलोकः परिगृह्यते तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः । न ह्यन्धं प्रति प्रदीपः प्रदीपो नाम, तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः। तथा लोकप्रद्योतकरेभ्यः इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योतं च सप्तप्रकारं जीवा
॥४३४॥