________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४३३॥
तया रागादीन् प्रति वीर्ययोगेन तपःकर्म प्रति वीरतया ख्याताः, तथा एषामवज्ञा परीषहेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपि इन्द्रियवर्गे, न खेदः संयमावनि, न प्रकम्पो ध्याने, न चैवमुपमा मृषा तद्द्वारेण तदसाधारणगुणा भिधानादिति । एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते विजातीयेनोपमायां तत्सदृशधर्मापत्त्या पुरुषत्वाद्यभावप्राप्तिः। यदाहु:-ते विरुद्धोपमायोगे तद्धपित्त्या तदवस्तुत्वमिति तद्वचपोहायाह-पुरुषवरपुण्डरीकेभ्यः पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि तेभ्यः, यथाहि पुण्डरीकाणि पङ्के जातानि जलेन वर्धितानि तदुभयं विहायोपरि वर्तन्ते प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवन लक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यनरामरैः सेव्यन्ते, सुखहेतवो भवन्ति, तथा भगवन्तोऽपि कर्मपङ्के जाता दिव्यभोगजलेन वर्षिता उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन तिर्यग्नरामरैः सेव्यन्ते, निवृत्तिसुखहेतवश्च जायन्ते इति भिषजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषासम्भवः । यदि तु विजातीयोपमायोगेन तद्धर्मापत्तिरापाद्यते तहि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति । एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरोविनेय-नगुणोपमापूर्वकमधिकगुणोपमारे इष्यन्ते। अभिधानक्रमाभावे अभिधेयमपि तद्वदक्रमवदसदितिवचनादेतन्निरासायाह-पुरुषवरगन्धहस्तिभ्यः पुरुषावर गन्धहस्तिन इव वरगजेन्द्रा इव पुरुष वरगन्धहस्तिनः यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रगजा भज्यन्ते तद्वदिति परचक्रदुर्भिक्षमारिप्रभृतयःसव एवोपद्रवगजा भगवतामचिन्त्यपुण्यानुभावानां विहारपवनगन्धादेव भज्यन्ते । न चैवमभिधानक्रमाभावेऽभिधेयमपि
॥४३॥