________________
योगशास्त्रम्
तृतीय प्रकाश
॥४३२॥
नेष्यते । एतेऽपि तदा शिवानुग्रहात् कैश्चिद्बोधवन्त इष्यन्ते, यदाह-महेशानुग्रहाद् बोधनियमाविति तन्निराकरणार्थमाह-स्वयंसंबुद्धेभ्यः स्वयमात्मना तथाभव्यत्वादिसामग्रीपरिपाकान तु परोपदेशात् सम्यगविपर्ययेण बुद्धा अवगततत्त्वाः स्वयंसंबुद्धास्तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुसन्निधानायत्तबोधास्तेऽभूवन् तथापि तीर्थकरजन्मनि परोपदेशनिरपेक्षा एव बुद्धाः, यद्यपि च तीर्थकरजन्मन्यपि लोकान्तिकत्रिदशवचनात् भयवं तित्थं पवत्तेह' इत्येवलक्षणाद् दीक्षां प्रतिपद्यन्ते तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयात्रावत् स्वयमेव प्रवज्यां प्रतिपद्यन्ते । इदानीं स्तोतव्यसम्पद् एव हेतुविशेषसम्पदुच्यते-पुरिमुत्तमाण पुरिससीहाणं पुरिसवरपुण्डरीआणं पुरिसवरगन्धहत्थीणं-पुरि शरीरे शयनात् पुरुषा विशिष्टकर्मोदयाद्विशिष्टसंस्थानवत्शरीरवासिनः सत्त्वास्तेषामुत्तमाः सहजतथाभव्यत्वादिभावतः श्रेष्ठाः पुरुषोत्तमाः तथाहि-आसंसारमेते परार्थव्यसनिन उपसर्जनीकृतस्वार्था उपचितक्रियावन्तोऽदीनभावाः सफलारम्भिणो दृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनो गम्भीराशया इति । न खल्वसमारचितमपि जात्यरत्नं समानमितरेण । न च समारचितोऽपि काचादिर्जात्यरत्नीभवति । एवं च यदाहुः सौगताः-नास्तीह कश्चिदभाजन सत्त्व इति, सर्वे बुद्धा भविष्यन्ति इति च, तत् प्रत्युक्तम् । एते च बाह्यार्थसंवादसत्यवादिभिः संस्कृताचार्यशिष्यनिरुपमानस्तवार्हा एवेष्यन्ते हीनाधिकाभ्यामुपमा मृषेति वचनात्तद्वयवच्छेदार्थमाह-पुरुषसिहेभ्यः पुरुषाः सिंहा इव प्रधानाः शौर्यादिगुणभावेन पुरुषसिंहाः, यथा सिंहाः शौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रुन् प्रति शूरतया तदुच्छेदं प्रति क्रूरतया क्रोधादीन् प्रत्यसहन
(१) भगवस्तीर्थ प्रवर्तय ।