________________
SERSEC
योगशाखम्
तृतीय प्रकाशा
।।४३१॥
श्रयते हि तत्कालजातेनैव श्रीमहावीरेण शक्रशङ्कापनोदाय वामपादाङ्गुष्ठेन मेरुपर्वतः प्रकम्पितः ७ । प्रयत्नः परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमहाप्रतिमाभावहेतुः समुद्धातशैलेश्यवस्थाव्यङ्ग्यः ८। इच्छा तु जन्मान्तरे सुरजन्मनि तीर्थकरजन्मनि च दुःखपङ्कमग्नस्य जगत उद्दिधीर्षातिशयवती ९। श्रीर्घातिकर्मोच्छेदविक्रमावाप्तकेवलालोकसम्पत्तिः, अतिशयमुखसम्पच्चानुपमा १० । धर्मः पुनरनाश्रवो महायोगात्मको निर्जराफलोऽतिश्रेयान् ११। ऐश्वर्य तु भक्तिभरावनम्रत्रिदशपतिविहितसमवसरणप्रातिहार्यादिरूपम् १२ । एवम्भूता एव प्रेक्षावतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते-आइगराणं तित्थयराण संयंसंबुद्धाणंआदिकरणशीला आदिकरणहेतवो वा आदिकराः सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्यादगम्यते तेभ्यः। यद्यपि सैषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचिन भवति, न कदाचिन भविष्यति, अभूच्च भवति च भविष्यति चेति वचनाद नित्या द्वादशाङ्गी; तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्वतीर्थेषु श्रुतधर्मादिकरत्वमविरुद्धम् । एतेऽपि कैवल्यानन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते अकृत्वक्षये कैवल्याभावादिति वचनादिति तद्वचपोहार्थमाह-तीर्थकरेभ्यस्तीयते संसारसमुद्रोऽनेनेति तीर्थ तच्च प्रवचनाधारश्चतुर्विधसङ्घः प्रथमगणधरो वा, यदाहु:-रतित्थं भन्ते ! तित्थं ? तित्थयरे तित्थ ? गोयमा! अरिहा ताव नियमा तित्थंकरे तित्य पुण चाउवण्णे समणसंधे पढमगणहरे वा, तत्करणशीलास्तीर्थकराः। न चाकृत्वक्षये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात् । एवं ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थकरत्वमस्माभिरपि (१) तीर्थ भगवन् ! तीर्थ ! तीर्थकरस्तीर्थ? गौतम ! अईस्तावनियमात् तीर्थकरस्तीर्थ पुनश्चतुर्वर्णः श्रमणसंघः
प्रथम गणधरो वा ।
AAMAmeramasex
H४३१॥
emasex