________________
योगशास्त्रम्
॥४३०॥
क्षयाद् मनःपर्यायज्ञानसहितम्, घातिक्षये चानन्तमनन्तविषयं निःशेषभावाभावस्वभावावभासकं केवलज्ञानम् १ | माहात्म्यं प्रभावातिशयः, तच्च सर्वकल्याणकेषु नारकाणामपि सुखोत्पादकत्वेन नित्यसन्तमसेष्वपि नरकेषु प्रकाशजनकत्वेन गर्भनिवासात् प्रभृति कुलस्य घनादिवर्धनेनाऽप्रणतसामन्तानां च प्रणत्येतिमारिर्वैरोपहतिवर्जितराज्यकरणेनाऽतिवृष्टयनावृष्टिप्रभृत्युपद्रवरहितजनपदत्वेन चलितासनसकलसुरासुरप्रणतपादपद्मत्वेन चाऽवसेयम् २ । यशस्तु रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थमाकालप्रतिष्ठं यत्सर्वदा दिवि सुरसुन्दरीभिः पाताले नागकन्याभि र्गीयते सुरासुरैर्नित्यमभिष्ट्रयते च ३ । वैराग्यं मरुन्नरेन्द्रलक्ष्मीमनुभवतामपि यत्र तत्र रतिर्नाम, यदा तु सर्वविषय त्यागपूर्वकं प्रवज्यां प्रतिपद्यन्ते तदाऽलमेभिरिति यदा तु क्षीणकर्म (र्मा) णो भवन्ति तदा सुखदुःखयोर्भवमोक्षयोरौदासीन्यमिति त्रिविधमप्यतिशायि भवति । यदवोचाम वीतरागस्तोत्रे
यदामरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥ १ ॥
नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥ २ ॥ सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति कुत्र नाऽसि विरागवान् ||३|| इति ॥४॥ मुक्तिश्व सकलक्लेशप्रहाणलक्षणा सन्निहितैवेति ॥ ५ ॥ रूपं तु-
१ सव्वसुरा जइ रूवं अंगुठ्ठपमाणयं विउव्विज्जा । जिणपायंगुहं पर न सोहए तं जहिंगालो ॥ १ ॥ इति निदर्शनात् सिद्धं सर्वातिशायि ६ । वीर्यं च मेरोर्दण्डरूपतां धरित्र्याच छत्ररूपतां कर्तुं सामर्थ्यम्, (१) सर्वसुरा यदि रूपमङ्गुष्ठप्रमाणकं विकुर्वेयुः । जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाकारः ॥१॥
तृतीय
प्रकाशः
१४३०॥