________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४२९॥
पृषोदरादित्वादहदिति सिद्धयति । अथवा अविद्यमान रह एकान्तरूपो देशोऽन्तश्च मध्यं गिरिगुहादीनां सर्ववेदितया प्रच्छन्नस्य कस्याप्यभावेन येषां तेऽरहोऽन्तरस्तेभ्योऽरहोन्तभ्यः अथवा अरहदभ्यः क्षीणरागत्वात् कचिदप्यासक्तिमगच्छद्भ्यः । अथवा अरहद्भ्यो रागद्वेषहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजदभ्यः । अरिहंताणमिति पाठान्तरं वा; तत्र कर्मारिहन्तृभ्यः । आह च
अट्टविहं पि हु कम्मं अरिभूय होइ सयलजीवाणं । तं कम्ममरिहंता अरिहंता तेण वुच्चंति ॥१॥ अरुहंताणमित्यपि पाठान्तरम् । तत्र अरोहद्भ्योऽनुपजायमानेभ्यः. क्षीणकर्मबीजत्वात् उक्तश्चदग्धे बीजे यथात्यन्तं प्रादुर्भवति नाइकुरः । कर्मबीजे तथा दग्धे नारोहति भवाङ्कुरः ॥१॥
शाब्दिकास्तु अर्हच्छब्दस्यैव प्रकृते रूपत्रयमिच्छन्ति, यद्वयमवोचाम-"उच्चाहति" ॥८२१११॥ चकाराददितावपि, तेभ्योऽहंदभ्यो नमोऽस्त्विति नमःशब्दयोगाच्चतुर्थी, " चतुर्थ्याः षष्ठी" ॥ ८।३।१३१॥ इति प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी । बहुवचनं चाद्वैतव्यवच्छेदेनाऽर्हबहुत्वख्यापनार्थम्, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च । एते चाऽर्हन्तो नामाधने कभेदा इति भावाईत्सम्परिग्रहार्थमाह भगवद्भ्यः
भगोऽर्कज्ञानमाहात्म्ययशोवैराराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधमैश्वर्ययोनिषु ॥१॥ इतिवचनादर्कयोनिवर्जमिह द्वादशधा भगशब्दस्याथः स विद्यते येषां ते मगवन्तः, निन्दावजं भूम्या (म्ना)दिष्वर्थेषु मतुः ज्ञानं तावद्गर्भनिवासात् प्रभृति आदीक्षातो मतिश्रुतावधिलक्षणं दीक्षानन्तरं त्वाघातिकर्मचतुष्टय
(१) अष्टविधमपि खलु कर्माऽरिमृतं भवति सकलजीवानाम् । तत्कारिहन्तारोऽन्तस्तेनोच्यन्ते ॥१॥
॥४२९॥