________________
योग
तृतीय
মক্কায়
शास्त्रम्
॥४२८॥
.
दो तिअ चउर ति पंचा दोनि अ चउरो य हुन्ति तिने य । सकथए नव संपय तित्तीसं होन्ति आलावा ॥१॥ ____एताश्च यथास्थानं नामतः प्रमाणतश्च कथयिष्यन्ते । व्याख्या नमो त्यु णं अरहंताणं भगवंताणं तत्र नम इति नैपातिकं पदं पूजार्थ, पूजा च द्रव्यभावसकोचः। तत्र करशिरःपादादिद्रव्यसन्यासो द्रव्यसङ्कोचः, भावसकोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु । प्रार्थनैषा धर्मबीजमाशयविशुद्धिजनकत्वात् । णमिति वाक्यालकारे । अतिशयपूजामईन्तीति अर्हन्तः । यदाह
२अरहंति वंदणनमसणाई अरहंति पूयसकारं । सिद्धिगमण च अरिहा अरहंता तेण वुच्चति ॥१॥
सुगद्विषाईः सत्रिशत्रुस्तुत्ये ॥५।२।२६ ॥ इति वर्तमानकालेऽतृश् । कथं वर्तमानकालत्वमिति चेत्, पूजारम्भस्याऽनुपरमात् । एष एव हि न्याय्यो वर्तमानकालो यत्नारब्धस्यापवर्गों नास्ति । तथा अरिहननादहन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादहन्तः । तथा रजोहननादहन्तः, रजश्च घातिकर्मचतुष्टय येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणस्वभावत्वे धनसमूहस्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिने भवति तस्य हननादहन्तः। तथा रहस्याभावादहन्तः; तथाहि-भगवतां निरस्तनिरवशेषज्ञानावरणादिकर्मपारतन्त्र्याणां केवलमप्रतिहतमनन्तमद्धतं ज्ञान दर्शन चास्ति, ताभ्यां जगदनवरतं युगपत्प्रत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद्रहस्याभावादहन्तः। एषु त्रिष्वर्थेषु (१) द्वौ त्रयश्चत्वारस्त्रयः पञ्च द्वौ च चत्वारश्च भवन्ति त्रयश्च । शक्रस्तवे नव सम्पदखयस्त्रिंशद् भवन्ति आलापाः॥१॥ (२) अर्हन्ति वन्दन-नमस्यनाधईन्ति पूजासत्कारम् । सिद्धिगमने च अर्हा अर्हन्तस्तेनोच्यन्ते ॥१॥
॥४२८॥