________________
योगशास्त्रम्
॥४२७॥
तत्समक्षं, गुरुविरहे तु गुरुस्थापनां मनसि कृत्वा ईर्यापथप्रतिक्रमणं निर्वर्त्य चैत्यवन्दनमृत्कृष्टमारभ्यते, जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकी प्रतिक्रमणमन्तरेणाऽपि भवतः । अत्र नमस्कारेण नमो अरिहंताणमित्यनेन - वपुरेव तवाचष्टे भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शावलः ॥ १ ॥
इत्यादिना कविकृतेन च जघन्या चैत्यवन्दना भवति । अन्ये तु प्रणाममात्ररूपां जघन्यां चैत्यवन्दनां वदन्ति । प्रणामस्तु पञ्चधा
एकाङ्गः शिरसो नामे स द्वयङ्गः करयोर्द्वयोः । त्रयाणां नमने त्र्यङ्गः करयोः शिरसस्तथा ॥ १ ॥ चतुर्णां करयोर्जान्वोर्नमने चतुरङ्गकः । शिरसः करयोर्जान्वोः पञ्चाङ्गः पञ्चके नते ॥ २ ॥ मध्यमा तु स्थापनार्हतः स्तवदण्डकेन स्तुत्या चैकया भवति । यदाह
१नवकारेण जहन्ना दंडगथुइजुगल मज्झिमा णेया । संपुष्णा उक्कोसा विडिणा खलु वंदना तिविहा ॥१॥ इत्युत्कृष्टया चैत्यवन्दनया वन्दितुकामो विरतः साधुः श्रावकश्च अविरतसम्यग्रदृष्टिरपुर्नबन्धको वा यथाभद्रको यथोचितं प्रतिलेखित प्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाश्चकञ्चुको मुदश्रुपूर्णलोचनः अतिदुर्लभ भगवत्पादवन्दनमिति बहु मन्यमानो योगमुद्रया अस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ प्रणिपातदण्यकसूत्रं पठति । तत्र च त्रयस्त्रिंशदालापका आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नवसम्पदो भवन्ति । यदाह
(१) नमस्कारेण जघन्या दण्डकस्तुतियुगलाद् मध्यमा ज्ञेया । सम्पूर्णोत्कृष्टा विधिना खलु वन्दना त्रिविधा ॥ १ ॥
तृतीय
प्रकाशः
રા