________________
योगशास्त्रम्
||४२६॥
वा साध्वादौ सहसा उच्चारयतो न भङ्गः यदाहुः
१ अगणि उच्छिन्दिज्ज-बोहिअखोभाइ-दीहडको वा । आगारेहिं न भग्गो उस्सग्गो एवमाईहिं ॥ १ ॥ आक्रियन्ते आगृह्यन्ते इत्याकाराः कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि भग्नः सर्वथा विनाशितः, न भग्नोऽभग्नः, विराधितो देशभग्नः, न विराधितोऽविराधितो भवेन्मम कायोत्सर्गः । कियन्तं कालं यावदित्याह -- जाव अरिहंताणं भगवंताणं नमोक्कारेणं न पारेमि यावदिति कालावधारणे, यावदर्हतां भगवतां सम्बन्धिना नमस्कारेण नमो अरिहंताणमित्यनेन न पारयामि न पारं गच्छामि तावत्किमित्याह -ताव कार्य ठाणेण मोणेण झाणेणं अप्पाणं वोसिरामि तावत्तावन्तं कालं कार्य देहं स्थानेनोर्ध्वस्थानेन हेतुभूतेन ऊर्ध्वस्थानमभिगृह्य कायप्रसरनिषेधेनेत्यर्थः, मौनेन वाग्निरोधलक्षणेन, ध्यानेन शुभेन सद्विषये चिन्तामभिगृह्येत्यर्थः, अप्पा आर्यत्वादात्मीयं कार्य वोसिरामि व्युत्सृजामि कुव्यापारनिराकरणेन परित्यजामि । अन्ये तु अप्पाणमिति न पठन्ति । अयमर्थः पञ्चविंशत्युच्छ्वासमानं कालं यावदूर्ध्वस्थानस्थितः प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्त ध्यानाऽनुगत स्तिष्ठामि स्थानमानध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि । पञ्चविंशत्युच्छ्वासाश्च चतुर्विंशतिस्तवेन चन्देसु निम्मलयरा इत्यन्तेन चिन्तितेन पूर्यन्ते, पायसमा ऊसासा इति वचनात् । संपूर्णकायोत्सर्गश्च नमो अरिहंताणमिति नमस्कारपूर्वकं पारयित्वा चतुविंशतिस्तवं संम्पूर्ण पठति । एवं सन्निहिते गुरौ
(१) अग्न्युच्छेद्य-बोधिकक्षोभादि दीर्घदष्टो वा । आकारैर्न भग्न उत्सर्ग एवमादिभिः ॥ १ ॥
OOOOORXSEXOLO
तृतीय
प्रकाशः
॥४२६॥