________________
योगशास्त्रम्
तृतीय प्रकाशः
॥४२५॥
___ एवं निःश्वसिताद्यपि नीससिएणं अधःश्वसितं निःश्वसितं तस्मात; खासिएणं काशितात; छिएण क्षुतात; जम्भाइएणं विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितं तस्मात्, उड्डुएणं उद्गारितात्; वायनिसग्गेण अपानेन पवननिर्गमो वातनिसर्गस्तस्मात्, भमलिए शरीरभ्रमेराकस्मिक्याः, पित्तमुच्छाए पित्तप्राबल्यान्मनाग्मोहो मूर्छा तस्याः, सुहुमेहि अंगसंचालेहि सूक्ष्मेभ्यो लक्ष्यालक्ष्येभ्योऽङ्गसञ्चारेभ्यो गात्रविचलनप्रकारेभ्यो रोमोद्गमादिभ्यः, मुहुमेहि खेलसंचालेहिं सूक्ष्मेभ्यः खेलस्य श्लेष्मणः सश्रारेभ्यः, आत्मनो हि वीर्ययुक्तद्रव्यतया अन्तः सूक्ष्मश्लेष्मसञ्चारः सम्भ वतीत्यतोऽन्यत्रोच्यते । सुहुमेहि दिहिसंचालेहिं सूक्ष्मेभ्यो दृष्टिसञ्चारेभ्यो निमेषादिभ्यः, सूक्ष्मा हि दृष्टिसञ्चारास्तदा सर्वथा निरोधुं शक्यन्ते यदा एकस्मिन् द्रव्ये दृष्टिनिवेशः स्थिरीकतुं शक्यते, न च शक्यते कर्तुमिति । उच्छ्वसितादिभ्योऽन्यत्र कायोत्सर्ग करोमीत्येतावता किमुक्त भवति ? एवामाइएहि आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गो एवमादिभिरुच्छ्वसितनिःश्वसितादिभिः पूर्वोक्तैराकारैरपवादरूपैरभग्नोऽविराधितो मे कायोत्सर्गों भूयादिति सम्बन्धः, आदिशब्दादन्यैरपि यदा अग्ने विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणं कुर्वतो न कायोत्सर्गभङ्गः। ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहण न करोति येन तद्भङ्गो न भवति ! उच्यतेनाऽत्र नमस्कारेण पारणमेवावशिष्टकायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणः कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्य नमस्कारमपठित्वा पारयतो भङ्गोऽपरिसमाप्तेऽपि च पठतो भङ्ग एव, तस्माद्यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव नमो अरिहंताणमिति वक्तव्यम् । तथा मार्जारमूषिकादेः पुरतो गमनेऽग्रतः सरतोऽपि न भङ्गः। तथा चौरसंभ्रमे राजसंभ्रमे वा अस्थानेऽपि नमस्कारमुच्चारयतो न भङ्गः। तथा सर्पदष्टे आत्मनि परे
॥४२५॥