________________
योगशास्त्रम्
तृतीय प्रकाशा
।।४२४॥
काउस्सग्गं। तस्यालोचितप्रतिक्रान्तस्य विराधनाप्रकारस्य उत्तरीकरणादिना हेतुभूतेन ठामि काउस्सगमिति योगः। तत्रोत्तरकरणं पुनः संस्कारद्वारेण परिष्करणमनुत्तरस्योत्तरस्य करणमुत्तरीकरणम्, अयं भाव:-विराधनस्य हि पूर्वमालोचनादिकं कृतं तस्यैव कायोत्सर्गकरणमुत्तरकरणम् , तेन पापकर्मनिर्घातना भवति । उत्तरीकरणं च प्रायश्चित्तकरणद्वारेण भवति इत्याह-पायच्छित्तकरणेणं प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयति प्रायश्चित्तम् , यद्वा पापं छिनत्तीति पापच्छित् आपत्वात्पायच्छित्तं तस्य करणेन हेतुभूतेन । प्रायश्चित्तकरणं च विशुद्विद्वारेण भवतीत्याह-विसोहीकरणेणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनो निर्मलिकरणं विशुद्धेः करणं विशुद्धिकरणं तेन हेतुभूतेन । विशुद्धिकरणं च विशल्यकरणद्वारेण भवति अत आह-विसल्लीकरणेणं विगतानि शल्यानि मायादीनि यस्याऽसौ विशल्यः, अविशल्यस्य विशल्यस्य करणं तेन हेतुभूतेन किमित्याह-पावाणं कम्माण निग्घायणट्ठाए पापानां संसारनिबन्धनभूतानां कर्मणां ज्ञानावरणीयादीनां निर्घातनार्थाय निर्घातनमुच्छेदः स एवार्थः प्रयोजन तस्मै, ठामि काउस्सग्गं अनेकार्थत्वाद्धातूनां ठामि करोमि कायस्स उत्सर्गों व्यापारवत परित्यागस्तम्। किं सर्वथा ? नेत्याह-अन्नत्थ ऊससिएणं अन्यत्रोच्छ्वसितात , तृतीया पश्चम्यथें, ऊर्ध्व प्रलम्ब वा श्वसितमुच्छ्वसितं तन्मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवतः कायस्य उत्सर्ग इत्यर्थः, उच्छ्वसितं हि निरोद्धमशक्यम् , तनिरोधे सद्यः प्राणविघाताखापत्तेः । यदाह
१ऊसासं न निरंभइ अभिग्गहिओवि किमुअ चिट्ठाए । सज्ज मरणं निरोहे सुहुमुस्सासं तु जयणाउ ॥१॥ (१) उच्छवासं न निरुणद्धि आभिग्रहिकोऽपि किमुत चेष्टया। सद्यो मरणं निरोधे सूक्ष्मोच्छ्वासं तु यतनया ।
॥४२४॥