________________
तृतीय
योगशास्त्रम् ॥४२३॥
चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रिया भ्रमरादयः; पंचिंदिया पञ्च श्रोत्रान्तानि इन्द्रियाणि येषां ते पञ्चन्द्रिया मूषकादयः। विराधनाप्रकारमाह-अभिहया अभिमुखा हताश्चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा; वत्तिआ वर्तिताः पुञ्जीकृताः धुलिचिक्खल्लादिना स्थगिताः, लेसिआ श्लेषिताः पिष्टा भूम्यादिषु वा लगिताः, संघाइया संघातिताः अन्योन्यगात्रैरेकत्र लगिताः, संघट्टिया संघट्टिताः मनाक् स्पृष्टाः, परिआविआ परितापिताः समन्ततः पीडिताः, किलामिआ क्लमिता ग्लानिमापादिता मारणान्तिकं समुद्घातं नीता इत्यर्थः, उद्दविआ अवद्राविता उत्त्रासिताः, ठाणाओ ठाणं संकामिया स्वस्थानात् परस्थानं नीताः, जीवियाओ ववरोविया जीविताद् व्यपरोपिता मारिता इत्यर्थः,-तस्स तस्य अभिहया इत्यारभ्योक्तविराधनाप्रकारस्य सर्वस्य मिच्छा मि दुक्कडं मिथ्या मे दुष्कृतम् एतद् दुष्कृतं मिथ्या मे भवतु विफलं भवत्वित्यर्थः । मिच्छा मि दुक्कडमित्यस्य पूर्वाचार्या निरुक्तविधिमुपदर्शयन्ति-तद्यथामित्तिर मिउमद्दवत्थे छत्ति य दोसाण छायणे होइ । मित्ति अमेराए ठिओ दुत्ति दुगंछामि अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥२॥
एवमालोचनाप्रतिक्रमणरूपं द्विविधं प्रायश्चित्तं प्रतिपद्य कायोत्सर्गलक्षणं प्रायश्चित्तं प्रतिपित्सुरिद सूत्रं पठतितस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणठाए ठामि (१) मीति मृदु-मार्दवार्थे छेति च दोषाणां छादने भवति । मीत्यमर्यादायां स्थितो दु-इति जुगुप्स आत्मानम् ॥१॥ केति कृतं मे पापं डेति च लङ्घयामि तदुपशमेन । एष मिच्छादुक्कड (मिथ्यादुष्कृत) पदाक्षरार्थः समासेन ॥२॥
तस्स उत्तधातक्रमणरूपं द्विविय उपसमेणं। एसो
॥४२३॥