________________
योगशाखम्
तृतीय प्रकाशा
४२२।।
कृतलोचादेर्वा, तस्मादन्यथा व्याख्यायते-ईपिथः साध्वाचारः, यदाह-ईपिथो मौनध्यानादिकं भिक्षुत्रतं तत्र भवा ऐपिथिकी; काऽसौ ? विराधना साध्वाचारातिक्रमरूपा तस्या इच्छामि प्रतिक्रमितुमिति सम्बन्धः। साध्वाचाराऽतिक्रमश्च प्राणातिपातादिरूपः। तत्र च प्राणातिपातस्यैव गरीयस्त्वम्, शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरः प्रपञ्चः । क सति विराधना? गमणगमणे गगनं चागमनं च समाहारद्वन्द्वस्तस्मिन्, गमनं प्रयोजने सति बहिर्यानम् आगमनं प्रयोजनसमाप्ती स्वस्थान एव गमनम् । गमनागमनेऽपि कथं विराधना ? इत्याह-पाणकरणे प्राण्याक्रमणे प्राणिना द्वीन्द्रियादयस्तेषामाक्रमणं पादेन पीडनं प्राण्याक्रमणं तत्र; तथा बीअक्कमणे बीजाक्रमणे, अनेन बीजानां जीवत्वमाह; तथा, हरिभक्कमणे हरिताक्रमणे; अनेन सकलवनस्पतेः, तथा ओसाउत्तिंगपणगदगमट्टीमक्कडासंकमणे, अवश्यायो जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिहरणार्थम्, उत्तिंगा गर्दभाकृतयो जीवाः, ते हि भूमौ विवराणि कुर्वन्ति, कीटिकानगराणि वा उत्तिंगाः पनकः पञ्चवर्णोल्लि; दकमृत्तिका अनुपहतभूमौ चिक्खिल्ल: अथवा दकशब्देनाप्कायो गृह्यते मृत्तिकाशब्देन तु पृथ्वीकाय इति; मकट: कोलिकस्तस्य सन्तानो जालकम्, ततश्चावश्यायश्चोत्तिङ्गश्चेत्यादिद्वन्द्वः तेषां संक्रमणमाक्रमणं तस्मिन् । कियन्तो वा भेदेनाख्यातुं शक्यन्ते ? इत्याह-जे मे जीवा विराहिया ये केचन सर्वथा मया जीवा विराधिता दुःखे स्थापिताः; ते च एगिदिया एकं स्पर्शनमात्रमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः; बेइंदिया द्वे स्पर्शनरसने इन्द्रिये येषां ते द्वीन्द्रियाः कृम्यादयः; तेइंदिया त्रीणि स्पर्शनरसनघ्राणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः पिपीलिकादयः; चउरिदिया
॥४२२॥