________________
योगशास्त्रम् ॥४२॥
तृतीय प्रकाशा
पंचङ्गो पणिवाओ थयपाढो होइ जोगमुदाए। वन्दन जिणमुद्दाए पणिहाण मुत्तमुत्तीए ॥१॥ दो जाणू दोन्नि करा पंचमय होइ उत्तिमंग तु । सम्मं संपणिवाओ नेओ पंचगपणिवाओ ॥२॥ अण्णोणतरिअंगुलिकोसागारेहिं दोहिं हत्थेहि । पिट्टोवरिकोप्परसंठिएहिं तह जोगमुद्दत्ति ॥३॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा ॥४॥ मुत्तासुत्तीमुद्दा जत्थ समा दोवि गम्भिया हत्था । ते पुण णिडालदेसे लग्गा अग्ने अलग्गत्ति ॥५॥ इत्यादि ।
ऐर्यापथिकीप्रतिक्रमणपूर्वक चैत्यवन्दनमित्युक्तम् । तत ऐर्यापथिकीसुत्रं व्याख्यायते-तच्च इच्छामि पडिक्कमिउमित्यादि तस्स मिच्छामि दुक्कडमित्यन्तम्, इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए; इच्छामि अभिलषामि प्रतिक्रमितुं प्रतीपं क्रमितुम्, ईरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः, तत्र भवा ऐर्यापथिकी; काऽसौ ? विराधना जन्तुबाधा, तस्या ऐर्यापथिक्या विराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः। अस्मिश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमण स्याद, न तु शयनादेरुत्थितस्य (१) पञ्चाङ्गः प्रणिपातः स्तवपाठो भवति योगमुद्रया। वन्दनं जिनमुद्रया प्रणिधान मुक्ताशुक्त्या ॥१॥
द्वे जानुनी द्वौ करौ पञ्चमकं भवत्युत्तमाकं तु । सम्यक संप्रणिपातो ज्ञेयः पश्चाङ्गप्रणिपातः ॥२॥
अन्योन्यान्तरिताङ्गलिकोशागा(का)राभ्यां द्वाभ्यां हस्ताभ्याम् । उदरोपरिकूपरसंस्थिताभ्यां तथा योगमुद्रेति ॥३॥ चत्वार्यगुलानि पुरत ऊनानि यत्र पश्चिमकः । पादयोरुत्सर्ग एषा पुनर्भवति जिनमुद्रा ॥४॥ मुक्ताशुक्तिमुद्रा यत्र समौ द्वावपि गर्भितौ हस्तौ । तौ पुनर्ललाटदेशे लग्नावन्यावलग्नाविति ॥५॥
॥४२१॥