________________
तृतीय
योगशाखम्
प्रकाशा
४३६॥
सम्भवन्ति तु तामन्तरेणापि तदाभासा न पुनः स्वार्थसाधकत्वेन भावसाराः तत्त्वचिन्तारूपं शरणं भगवद्भ्य एव भवतीति शरणं ददतीति शरणदाः, तथा बोधिदेभ्यः, इह बोधिर्जिनप्रणीतधर्मावाप्तिः, इयं पुनर्यथाप्रवृत्तअपूर्व-अनिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नपूर्वग्रन्थिभेदतः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते विज्ञप्तिरित्यन्येषां पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोचितस्यास्याभावादेते च यथोत्तरं पूर्वपूर्वफलभूताः, तथा हि- अभयफलं चक्षुः चक्षुःफलं मार्गः, मार्गफलं शरणम्, शरणफलं बोधिः, सा च भगवद्भ्य एव भवतीति बोधि ददतीति बोधिदाः । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्यो यथोदितोपयोगसिद्धरुपयोगसम्पद एव हेतुसम्पदुक्ता । साम्प्रतं स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुच्यतेधम्मदयाण धम्मदेसयाण धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरन्तचक्कवट्टीणं-धर्मदेभ्यः, इह धर्मश्चारियधर्मों गृह्यते स च यति-श्रावकसम्बन्धिभेदेन द्वेधा । यतिधर्मः सर्वसावद्ययोगविरतिलक्षणः; श्रावकधर्मस्तु देशविरतिरुपः स चायमुभयरूपोऽपि भगवद्भय एव हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्त्वादिति धर्म ददतीति धर्मदाः, धर्मदत्वं च धर्मदेशनाद्वारेणैव भवति नान्यथेत्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथाभव्यमवन्ध्यतया देशयन्तीति धर्मदेशकाः तथा धर्मनायकेभ्यः धर्मोऽधिकृत एव तस्य नायकाः, स्वामिनस्तद्वशीकरणभवात् तदुकर्षावाप्तेस्तत्प्रकृष्टफलभोगात् तद्वयाघातानुपपत्तेश्च धर्मनायकाः, तथा धर्मसारथिभ्यः प्रस्तुतस्य धर्मस्य स्वपरापेक्षया सम्यक्प्रवर्तनपालनदमनयोगतः सारथयो धर्मसारथयः तथा धर्मवरचतुरन्तचक्रवर्तिभ्यः, धर्मः, प्रस्तुत स एव त्रिकोटिपरिशुद्धितया सुगतादिप्रणीतधर्मचक्रापेक्षया उभयलोकहितत्वेन चक्रवर्त्यादिचक्रापेक्षया च वरं प्रधान
४३६॥