________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४१७॥
१सव्वाए इड्डीए सव्वाए दित्तीए सवाए जुईए सब्वबलेणं सव्वपोरिसेणं' इत्यादिवचनात्प्रभावनानिमित्तं महर्यायाति । ___ अथ सामान्यविभवस्तदा औद्धत्यपरिहारेण लोकोपहासं परिहरन् व्रजति ॥१२३॥ ततःप्रविश्य विधिना तत्र त्रिः प्रदक्षिणयेजिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनरुत्तमैःस्तुयात् ॥१२४॥
तत्र देवगृहे विधिना विधिपूर्वकं प्रविश्य त्रिस्त्रीन् वारान् प्रदक्षिणयेत् प्रदक्षिणीकुर्यात: जिनमहद्भट्टारकम् , प्रवेशविधिश्चायम्-पुष्पताम्बूलादिसचित्तद्रव्याणां क्षुरिकापादुकाधचित्तद्रव्याणां च परिहारेण कृतोत्तरासङ्गो जिनबिम्बदर्शनेऽञ्जलिबन्धं शिरस्यारोपयन् मनसश्च तत्परतां कुर्वनिति पञ्चविधाभिगमेन नैषेधिकीपूर्व प्रविशति । __यदाह-सचित्ताणं दवाणं वि उसरणयाए, अचित्ताणं दव्वाणं वि उसरणयाए, एगल्लसाडिएणं उत्तरासङ्गकरणेणं चक्खुफासे अञ्जलिपग्गहेणं मणसो एगत्तीभावकरणेणं ति । यस्तु राजादिः चैत्यभवनं प्रविशति स तत्कालं राजचिणानि परिहरति । यदाह
३अवहह रायकउआई पञ्च वररायकउआरूवाई । खग्गं छत्तोवाणह मउडं तह चामराओ य ॥१॥ (१) सर्वया ऋद्धया, सर्वया दीप्त्या, सर्वया द्युत्या, सर्वबलेन, सर्वपौरुषेण । (२) सचित्तानां द्रव्याणामपि अवसरणतया, अचितानां द्रव्याणामपि अवसरणतया, एकशाटकेनोत्तरासङ्गकरणेन,
चक्षः-स्पर्श अञ्जलिप्रग्रहेण मनस एकत्वीभावकरणेनेति । (३) अपहृत्य राजककुदानि पञ्च वरराजककुदरूपाणि । खगः छत्रमुपानद् मुकुटं तथा चामराणि च ॥
॥४१
॥